पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] सोपाधिकत्वभङ्गः न च बाघोबीतत्वात् सोप्युपाधिः, बाघस्याग्रे निरसिष्यमाण- त्वात् । अपिच यव्यतिरेकस्य साध्यव्यतिरेकसाधकत्वं तस्यैष साध्यव्यापकत्वम्, इतरांशे अनुकूलतर्काप्रसरात् । तथाच ‘क्षित्यादिकं न कर्तृजन्यं, शरीराजन्यत्वात्' इत्यत्र यथा शरीरविशेषणवैयर्थ्याण शरीरजन्यत्वं कर्तृजन्यत्वव्यापकम्, एवं उपाध्युद्भावनाभावप्रसङ्गात् । यदपि प्रथमोपाधौ विशेषणं साध्यसमव्या- तयर्थं न तु पक्षमात्रव्यावृत्त्यर्थम्, अतस्तस्योपाधित्वमव्याहतमिति, तदपि न; समव्याप्तयर्थमुक्तस्यापि साधनवत् पक्षमात्र व्यावर्तकत्वानपायात् । न हि तत्पक्षव्यावृत्तिमात्रार्थमुपात्तत्वम्,' अपितूक्तरूपम्। किंच दोषप्रयुक्तभा- नत्वं न ब्रह्माण, तस्य स्वप्रकाशत्वात् । अतो विशेषणं विनापि साध्य - समव्याप्तिसत्त्वमिति न तदर्थं विशेषणं, किन्तु पक्षमात्रव्यावृत्त्यर्थमेव | भानं हि चैतन्यं चेत्तदा न तत्कुत्रापि दोषप्रयुक्तं, अनावृतचैतन्यं चेत्तदा वृत्तिद्वारा ब्रह्मण्यपि दोषप्रयुक्तं तद्वाच्यम् । तथाच परोक्षप्रातीतिके तस्य साध्याव्यापकत्वमतो वृत्तिरूपं तद्वाच्यम् । न च ब्रह्मणि दोषप्रयुक्तं तद - स्ति, बाध्य`विषयकवृत्तेरेव दोषप्रयुक्तत्वात् । न च बाध्याविषयकत्वेऽपि तत्वाविषयकत्वेनालीका कारवृत्तेः वासनादिदोषप्रयुक्तत्वादलीकवारणा- योक्तविशेषणमावश्यकमिति वाच्यम्; अलीका कारवृत्तेरस्माभिरस्वीका- रात्, त्वया स्वीकारेऽप्यस्मान् प्रत्युपन्यस्तोपाषावुक्तविशेषणवैयर्थ्यात् । बाधोनीतत्वादिति । पक्षे साध्याभावानश्चयरूपबाधेन' निर्णीतसाध्य - व्यापकताकत्वादित्यर्थः । यथा वहिरनुष्णः कृतकत्वादित्यादौ वहीतरत्व- मुपाधिः, पक्षस्य साध्याभाववत्तया निश्चितत्वरूपाद्विपक्ष'त्वाद्विपक्षाव्या- वर्तकविशेषणशून्यत्वात् तथा स्वबाधकेत्यादिकमपीति भावः । यदिति । यदवच्छिन्नप्रतियोगिताकेत्यर्थः । साधकत्वं व्याप्यत्वम् | तस्य तद्वि- शिष्टस्य | यथा शरीरेत्यादि । शरीरजन्यत्वं यदि कर्तृजन्यत्वव्यापकं ु 5 रूपविपक्ष. 1 4 3 निश्चयानेरूपकबाधे. बाह्य. बाध्य. 2 मुपालम्. 13* 195.