पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

194 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः 66 - त्वादिकं नोपाघिः, पक्षमात्रव्यावर्तकविशेषणवत्त्वात् । उक्तं च तत्र दीधितौ — " तर्कादिना व्यापकतानिश्चये तु पक्षेतरत्वमपि बाधो- नीतपक्षेतरत्ववनिश्चितोपाधिः, पक्षमात्रव्यावर्तकविशेषणवत्त्वं तु नानुपाधितायां बीजं, परिभाषामात्रत्वात्, किन्त्वनुकूलतर्काभावेन तादृशव्यापकत्वानिश्चय इति, तथाकथकसम्प्रदायानुरोधात् बाधानु- नीत: पक्षेतरो न कथायामुपाघित्वेनोद्भाव्यते" इति । ईश्वरवादे च मणावुक्तं – “पक्षेतरत्वादौ विपक्षबाघकाभावात् न साध्याव्यापक- तानिश्चय इत्यनुपाधित्वे बीजम्" इति । अतएव सन्दिग्धोपाधित्वमपि तस्य नास्ति, दृश्यत्वादिहेतोः साध्ये व्यापक ताग्राहकतर्कसत्त्वात्, उक्तोपाधौ साध्यव्यापकता ग्राहकतर्कासत्त्वाच्च । उक्तं हि मणौ – “यत्र साध्योपाध्योः हेतुसाध्ययोः व्याप्तिग्राहकसाम्यान्नैकत्र व्याप्तिनिश्चयः, तत्र सन्दिग्धोपाधित्वं, व्यभिचारसंशयाधायकत्वात् यत्रत्वेकत्र तर्का- बतारस्तत्र हेतुत्वमुपाधित्वं वा निश्चितम्" इति । विपक्षाव्यावर्तकत्वे- sपि साधनवद्विपक्षान्न व्यावर्तयतीत्यंशेन प्रकृतोपाध्योः पर्वतेतरत्वादिकं न सदृशं, किन्तु पर्वतावयववृत्त्यन्यत्वादिकमिति तदेव दृष्टान्तीकृतम् । तत्रायमभिप्रायः–पक्षेतरतुल्यत्वेन पर्वतावयववृत्त्यन्यत्वादेः यथोक्तमणि- वाक्ये अनुपाधित्वमुक्तम्, तथा तत्सुसहशयो रुक्तोपाध्योरपि तदिति । यतु –'व्यतिरेके साधारणत्वात् पर्वतेतरत्वस्य अनुपाधित्वं, न तु विप क्षाव्यावर्तकविशेषणवत्त्वादिति तन्न' दृष्टान्तीकृतम्' इति, तत्तुच्छम् ; उक्तविशेषणात् तदनुपाधित्वस्य मण्यादावुक्तत्वात् तदभावस्य पक्षमात्र- वृत्तित्वेन असाधारणत्वादन्वयव्याप्तया सत्प्रतिपक्षासम्भवेऽपि व्यतिरेक- व्याप्तया तत्सम्भवाद्व्यभिचारज्ञापकतया दूषकत्वे तदभावासाधारण्यस्या- प्रयोजकत्वात् सत्प्रतिपक्षोन्नायकतयैवोपाधेः दूषकत्वे सत्प्रतिपक्षे - 19 3 साध्यव्यापक. 4 कत्वे ." सत्यपि. 1 1 पक्षतरत्वविनिश्चिते उपाधिः 2 बाधानुनीत. 5 तथाच तर्कसदृशयो. 6 तत्र.