पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] सोप|धिकत्वभङ्गः स्मैक्ये मिथ्याभूते साध्याव्यापकत्वात् पर्वतावयववृत्स्यन्यत्वादि वत्, साधनवत्पक्षमात्रव्यावर्तकविशेषणवत्त्वेन पक्षेतरतुल्यत्वाञ्च । साध्याभावव्याप्यस्वाभावकत्व मित्यर्थः । साधनवदिति । पर्वतावयव- वृत्तीत्यस्य स्वबाधकेत्यादेश्च विशेषणस्य पर्वतावयवरूपादे: वासनादि - दोषप्रयुक्तविकल्पविषयादलीकाच्च विपक्षाद्वयावर्तकत्वात् साधनवदिति साधनवत्पक्षव्यावर्तकं यत्साघनवद्विपक्षाव्यावर्तकं विशेषणं तद्वत्त्वे- नेत्यर्थः । साधनवद्विपक्षनिष्ठभेदप्रतियोगितावच्छेदकताया यन्निष्ठाया अनवच्छेदकं यद्विशेषणं तत्र तत्साधनवद्विपक्षाव्यावर्तकमन्यत्वादिनिष्ठो- क्तावच्छेदकताया अनवच्छेदकं पर्वता 'वयववृत्त्यादिकं पर्वतो धूमवान् वहेरित्यादौ साधनवाद्वपक्षे अयः पिण्डादौ पर्वतावयववृत्त्यन्यत्वादि मद्भे- दासत्वात्स्वबाधकेत्याधुपाधौ यद्यपि प्रकृतसाधनवान् विपक्षोऽप्रसिद्धः, तथापि साधनवद्विपक्षव्यावर्तको यावान् प्रसिद्धः तत्तदन्यत्वं स्वबाघके- त्यादिविशेषणेप्यस्त्येव । यद्विशेषणघटितस्य यस्योपाधेराश्रयाद्भिने साधनवत्त्व विपक्षत्वोभयाभावः तत्तत्र साधनवद्विपक्षा'व्यावर्तकमिति वा बोध्यम् । आर्द्रेन्धनस्य तु आर्द्रत्व' विशेषणं साधनवद्विपक्षव्या 'वेतक- मिति तदुपाधिः । पक्षेतरतुल्यत्वादिति । यदा' साध्यव्यापकताम्रा- हकतर्काभावनियतात् साधनवत्पक्षमात्रव्यावर्तकविशेषणात् पर्वतेतरत्या- दिकं नोपाधिः, न वोपाधित्वेन कथायामुद्भाव्यं तदा पवतावयववृत्त्य- न्यत्वादिकं स्वबाधकेत्यादिकं च तकभावे पक्षे व्यभिचारसंशयेन साध्यव्यापकत्वानिश्चयादित्यर्थः । उक्तं हि मणौ – न च पक्षतरत्वे स्वव्याघातकत्वेनानुपाधावतिव्याप्तिः, तत्र अनुकूलतकाभावेन व्याप- कत्वानिश्चयात् । बाघोन्नति च तस्त्येव । एवं पर्वतावयववृत्त्यन्य- 10 तथा.. 1 स्वाभावक. 2 वा साधनादि. 3 निष्ठप्रति. 4 पर्वतीया. 7 आदित्यादि. 8 द्विपक्षवद्वया. 9 यथा. 6 द्विपक्ष. A.S.V. "₂ 193 5 वृत्तित्वादि. 13