पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

192 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः सोपाधिकत्वभङ्गः ननु दृश्यत्वादिहेतवः सोपाधिका:; तथाहि — स्वबा धकाभिमताबाध्यदोषप्रयुक्तभानत्वं स्वबाधकाबाध्यबाधकं प्रति निषेध्यत्वेन विषयत्वं वा विपक्षाद्वयावृत्तं समव्याप्तम् । अतएव व्यतिरेकव्याप्तिमदुपाधिरिति चेन्न; ब्रह्मज्ञानमात्रबाध्ये देहा- स्वबाधकेत्यादि । यत्रोपाधिः स्थाप्यः स स्वपदार्थः । स्वबाधकेन ज्ञानेनाबाध्यो यो दोषस्तत्प्रयुक्तं भानं यस्य तत्त्वम्, शुक्तिरूप्यादौ साध्यव्यापकं वियदादेः स्वबाधकाबाध्य दोषाप्रसिद्ध्या शुक्तिरूप्यादावेव प्रसिद्धं तद्वियदादिनिष्ठसाधनाव्यापकं बोध्यम् । स्वबाधकाबाध्यबाधकमित्यादि | स्वपदार्थ : पूर्ववत् । शुक्तिज्ञाना- दिरूपं यत् स्वबाधकं तदबाध्यं नात्र रूप्यमित्यादिधीरूपं, बाधकं प्रति निषेध्यत्वेन विषयः शुक्तिरूप्यादिः, स्वबाघकाबाध्यधीविषयत्वं विय- दादावप्यास्ति, तद्वाधकब्रह्मज्ञानाबाध्याचद्विषयत्वस्य तत्र सत्त्वात् । अतो बाधकं प्रति निषेध्यत्वेनेति । तथाच स्वबाधकाबाध्यस्वप्रतियोगि काभावबुद्धिकत्वं समुदायार्थः । आकाशाद्यभावबुद्धेस्तद्वाधक ब्रह्मज्ञान - बाध्यत्वादाकाशादावुक्तोपाषेरभावेन न साधनव्यापकतेति भावः । विपक्षेत्यादि । विपक्षात् ब्रह्मणस्तुच्छाच्च व्यावृत्तं, अतः समव्याप्त- मित्यर्थः । उदयनादिमते समव्याप्तस्यैवोपाधित्वादिदमुक्तम् । अतएव समव्याप्तत्वादेव । ययोः व्यतिरेकव्याप्तिः, तयोरेव व्याप्य वृत्तिव्यतिरे- किणोः अन्वयव्याप्तिः । अतएव पक्षेतरत्वं नोपाधिः, व्यर्थविशेषणत्वेन व्यतिरेके व्याप्तयभावादिति मते साध्यान्वयव्यतिरेकोन्नायकस्वान्वय- व्यतिरेकत्वरूपं साध्यप्रयोजकत्वमुपाघित्वम् । अतएव पक्षेतरत्वे- नोपाधिरिति मते च उपाधित्वसंपादनायाह-व्यतिरेकव्याप्तिमदिति । 1 काबाध्या. 2 द्वाधकत्वमज्ञान, 3 व्याप्ति. 4 व्यतिरेक. 5 स्वाभावक. ,