परिच्छेदः] 189 समानाधिकरणवृत्तिर्यो घर्मः तद्वत्त्वरूपलक्षणस्योक्तोपाधौ सत्त्वात् ज्ञानसम्भवाच्च । उक्तप्रतियोगित्वरूप साधनवत्त्वेन उभयवादिनिश्चित तत्तन्त्ववच्छिन्नचैतन्योपादानकसर्पादौ दशावच्छिन्ने तत्तन्तुसंयोगादौ च तत्पटोपादानोपादानकत्वाभावरूपसाध्यस्यासमानाधिकरणधर्मनिश्चयात् । एवं स्वानधिकरणसाधनाधिकरणवृत्तिधर्मावच्छिन्नसाध्यव्यापकत्वादिलक्ष- णस्यापि सत्त्वात् पृथिवीतररूपसाधनतादात्म्येन निश्चिते जलादौ पृथिवीत्वाभावरूपसाध्यस्यासमानाधिकरणधर्मो नास्ति न ज्ञायते चेति प्रथमलक्षणस्य स्वानधिकरणत्वादि नस्ति न ज्ञायते चेति द्वितीयादि- लक्षणस्यासत्त्वात्,' ज्ञातुमशक्य त्वाच्च । पृथिवी इतरभिन्ना पृथिवी- त्वादित्यादौ पाकजरूपाभावादेरुपाधित्वासम्भवात्, व्यतिरेकिमात्रोच्छे- दाप्रसक्तेः पाकजरूपाभावरूपोपाधिव्यभिचारित्वस्य पृथिवीतररूपसाधने निश्चयाभावे तेन हेतुना पृथिवीत्वाभावरूप साध्यव्यभिचारित्वानुमाना - सम्भवाच्च, ' सत्प्रतिपक्षोन्नायकतया दूषकत्वस्य तत्रासम्भवाच्च । उक्तं हि दीधितौ – “यत्र यद्दोषोन्नायकत्वमुपाघेः, तत्र तदुन्नयनौपयिक; रूपवैकल्यमाभासत्वे बीजम्” इति । न च तथापि सन्दिग्धोपाधित्वं पाकजरूपाभावादेः स्यादिति वाच्यम्; साध्यहेत्वोर्व्याप्तिग्राहकतर्क-- सत्त्वात् । तदुक्तं हि मणौ — “ यत्र साध्यहेत्वोः साध्योपाध्योर्वा व्याप्तिग्राहकसाम्यान्नैकत्र व्याप्तिनिश्चयः, तत्र सन्दिग्धोपाधित्वम् । यत्र तु एकत्र तर्कावतारः, तत्र हेतुत्वमुपाधित्वं वा निश्चितम् । अत एव पक्षेतरत्वं न सन्दिग्धो'पाधि: " इति । न चैवमुक्तसर्पादावुक्त- साधननिश्चयस्योभयवादिनोः सम्भवेन साधनाव्यापकत्वसौलभ्यात् पक्षा- वृत्तेः पक्षवृत्तितया सन्दियमानेत्युक्तिर्व्यर्थेति वाच्यम्; यदि उक्तसर्पादौ नोक्तसाधननिश्चयः, तथापि यत्रैतत्तन्त्वित्यादिव्याप्तिग्राहकतर्काभावा- 5 66 3 अंशित्वविचारः 1 क्तोपाय. 2 जायते. 3स्य सत्वात्. 4 ज्ञातुं शक्य. 5 मानात्सम्भवाच. 6 नौपाधिक. 7 तरत्वं संदिग्धो.
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२०९
दिखावट