पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

1 190 6 तु १ त् सन्दिग्धोपाधित्वमेतान्नष्ठप्रागभावाप्रातयाोगत्वस्याव्याहतामत्याभप्रायण तथोक्तत्वात् । संयोगादिना दृश्यत्वोपपादनं तु प्रतिवक्ष्यते । उपाधि- रेवेत्यादिकं तु न युक्तं ; 'उपाधित्वे साध्यसमनियतत्वादिकं नोपयु- ज्यते' इत्यादेर्मण्यादावुक्तत्वात् । साध्यासमनियतत्वान्न हेतुत्वमित्युक्तौ न लज्जेति चित्रम् । तथा सति धूमादेर्वह्याद्यहेतुत्वापत्तेः । तर्कसत्त्वा- तत्र हेतुत्वमिति चेत्तर्हि साम नैयत्यं को युक्तम् ? वक्ष्यन्ते च प्रकृतहेतौ तर्काः । साध्यवति ब्रह्मणीत्ययुक्तम्; ब्रह्मणोऽत्यन्ताभावप्रतियोगित्वे माना- 'भावस्य उक्तत्वात् । एतत्पटात्यन्ताभावः एतत्तन्तुनिष्ठः एतत्पटानाद्यभाव- त्वादित्यादिनव्यानुमानेषु परेणात्राशङ्कितम समाधेयम् । समाहितप्रायं चेत्याचार्यैरुपेक्षितम् । यदपि मिथ्यात्वघटकोऽभावो यदि न तात्त्विकः, तदा सिद्धसाघनादि । अथ यदि तात्त्विकः, मण्डनमते भावाद्वैतस्वीका- रान्नाद्वैतहानिरिति तदाऽभावे अभावत्वादेर्ब्रह्माण तदाश्रयत्वादेरावश्यक- त्वात् भावाद्वैतमपि व्याहतम् । अभावस्य प्रवृत्तिनिमित्तस्य सम्भवात् ब्रह्म वाच्यं स्यात् । अखण्डार्थेन वेदान्तेन ब्रह्माभावयोर्द्वयोः संसर्गासि द्विश्व, अन्यस्य तत्त्वावेदकत्वं नास्त्येवेत्यभावः कथं तात्त्विक अद्वि- तीयपदस्य भावरूपद्वितीयाभावपरतया सङ्कोचे बीजाभावश्च । भावस्यापि स्वाभावाभावत्वेन सत्यता स्यात् । भेदोप्यभावत्वात् सत्यः स्यात् । ध्वंसादेस्सत्यत्वे मिथ्या प्रतियोगिना विरोषो न स्यात् । भावत्वस्येवा- भावत्वस्यापि दुर्वचत्वात् कथमभावस्सत्यः ? दृश्यत्वादिहेतोरभावे व्यभि- चारश्चेत्युक्तम् । तत्रोक्ताभावस्यातात्त्विकत्वमाचार्यैर्विवेचितत्वाददोषम् । तात्त्विकत्वमपि ब्रह्मान्यस्याभवस्य मण्डनमते युक्तमेव ; अभावत्वाभावा- श्रय' त्वादेरतिरिक्तस्यानङ्गीकारादभावस्वरूपेण प्रतियोगिविशेषितेन ब्रह्मा- द्वैतमिति व्यवहारोपपत्तेः, अभावत्वस्यातिरिक्तत्वेप्यनुयोगिताविशेषरूपस्य तस्य प्रतियोगिताया इवातात्त्विकत्व सम्भवात् । आश्रयत्वमतिरिक्तमि- 2 नोप. 3 अभावत्वाश्रय. 4 तात्त्विकत्वा. अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां सम. [प्रथमः