पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अंशित्वविचारः परिच्छेदः] तन्त्वनारब्धत्वमपि नोपाधिः, उपाधिव्यतिरेकेण साध्यव्यंति- रेके साध्यमाने सोपाधिकत्वस्य उक्तत्वात्, अव्याप्यवृत्तिसंयो- गाभ्युपगमे तत्र व्यभिचाराच्च । अतएव यत्रैतत्तन्तुनिष्ठात्यन्ता- भावप्रतियोगित्वं तत्र एतत्तन्त्वनारब्धत्वमिति न साध्यव्या पकताग्रहोऽपि, तत्रैव व्यभिचारादिति सर्वमनवद्यम् || एवंच 'विमतं ज्ञानव्यतिरेकेणासत्, ज्ञानव्यतिरेकेणानु- पलभ्यमानत्वात् स्वमादिवत्' इति विद्यासागरोक्तमपि साधु । ज्ञानव्यतिरेकेणासत्त्वमुक्तमिथ्यात्वान्यतमत्वं साध्यम् । ज्ञान- व्यतिरेकेणानुपलभ्यमानत्वं चिदाभासे सत्येवोपलभ्यमानत्वं च्यतयोक्तव्याभिचारित्वस्य हेतोर्निश्चयानपायात् तादृशव्यभिचारित्व- संशयाहितव्यभिचारसंशयेनाप्युक्तव्यापकतानिश्चयप्रतिबन्धसम्भवाच्च । उक्तत्वादिति । उपाध्यभावे साध्याभावस्य व्यतिरेकव्याप्तेरेव वाच्यतया तत्र एतन्निष्ठप्रागभावा' प्रतियोगित्वस्योपाघेरुक्तत्वादित्यर्थः । तत्र व्यभि चारादिति । दशावच्छिन्नसंयोगे तत्पटानवच्छेदकानवच्छिन्नात्यन्ता- भावप्रतियोगित्वरूपस्य साध्याभावस्य तत्तन्त्वारब्धत्वस्य हेतोश्च सत्त्वा- दित्यर्थः । न च स्वानवच्छेद कानवच्छिन्नस्व समानाधिकरणाभाव प्रति- योगित्वस्यैव साध्यतया उक्त प्रतियोगित्वस्य उक्तसंयोगे स्थापनकाले व्युत्पत्तिस्वाभाव्यात् तस्यैव स्वपदेन धार्यत्वात् नोक्तव्यभिचार इति वाच्यम्, प्रकृतानुमानवादिनव्यमते स्वत्वस्थाननुगतत्वात्, व्युत्पत्तेर्व्याप्ति- ज्ञानादावनुपयोगाच्च, तत्पटावच्छेदकत्वेनैव साध्ये निवेशात् साध्योपाध्योः तत्तन्तुपदेन तत्पटोपादानस्यैव धार्यतया तत्तन्त्ववच्छिन्न चैतन्याधिष्ठानक- सर्पादौ स्वानवच्छेदकानवाच्छन्नस्वसमानाधिकरणात्यन्ताभावप्रतियोगि- त्वस्याप्यनपायाच्च, तदारब्धत्वस्य तदुपादानकत्वरूपस्य सत्त्वाच; तत्संयोगजन्य त्वरूपस्य' पक्षेऽपि मन्मते अभावात् । चिदाभासे इति । 1 एतन्निष्ठात्यन्ताभावा. 2 भावा. 3 जन्यत्वस्य. 185 ,