पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

184 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां न्वयित्वेन किञ्चिविष्ठात्यन्ताभावप्रतियोगित्वाभावात् व्यभिचार इति वाच्यम्; संसर्गाभावप्रतियोगित्वानधिकरणे केवलान्वयिनि धर्मे सत्त्वेनाकाशात्यन्ताभावस्य संसर्गाभाव- प्रतियोगित्वाव्याप्यत्वेन व्यभिचाराभावादिति चेन्न; यत्रतत्त- न्तुनिष्ठात्यन्ताभावप्रतियोगित्वं तत्रैतत्तन्त्वारब्धत्वाभाव इति व्यतिरेकव्याप्तावेतन्निष्ठप्रागभावाप्रतियोगित्वस्य उपाधित्वेन प्र- तिरोधस्य हीनबलत्वात्, एतत्तन्त्वारब्धत्वाभावव्यापकस्यैत- तन्तुनिष्ठप्रागभावाप्रतियोगित्वस्य पक्षावृत्तेः पक्षवृत्तितया सान्द- ह्यमानैतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगित्वाव्यापकत्वात्, दृश्य- त्वाद्यनुपपत्तिप्रतिकूलतर्कपराहतेर्वक्ष्यमाणत्वाच्च । अतएव एत- सध्यानुमित्यापत्तेरित्युक्तानुमान न सम्भवदुक्तिकम् – तथापि तदभ्युपेत्य दूषणान्तरमाह — यत्रैतदिति । प्रागभावानजीकारे तु एतदुपादान - कत्वाभाव एवोपाधिः । तादृशप्रतियोगित्वेन सन्दियमाने पक्षे यदि उपाधेर्निश्चयस्स्यात्तदा तदृशप्रतियोगित्वरूपसाधन व्यापकत्वमुपाधौ नि- श्चीयेत, स तु नास्तीत्याशयेन पक्षावृत्तेरित्युक्तम् । पक्षावृत्तित्वेन निश्चितस्येत्यर्थः । सन्दिह्यमानेत्यादि । सन्दिह्यमानं यदुक्तप्रतियो- गित्वं तद्व्यापकत्वानिश्चयादित्यर्थः । तथाचैतदारब्धत्वाभावव्यापकोपाधि- व्याभेचारित्वेन हेतुना एतदारब्धत्वाभावव्यभिचारित्वमेतन्निष्ठाभावप्रति- योगित्वे अनुमेय मित्येतदनारब्धत्वे तादृशप्रतियोगित्वव्यापकतानिश्चयो न सम्भवतीति भावः । न चोक्तोपाध्यभाववति तादृशप्रतियोगित्वस्य सन्दे- हा'तत्रोक्तव्यभिचारित्वस्य हेतोरनिश्चय इति वाच्यम्; एतत्तन्तुपदस्य तत्पटोपादनपरतया तत्पटोपादानीभूतं यत्तन्त्ववच्छिन्नचैतन्यं तन्निष्ठप्राग- भावाप्रतियोगित्वरूपोपाध्यभाववति तादृशचैतन्यारेपितसर्पादौ स्वोपादान- परेणापि वा- वृत्तिस्वावच्छेदकावच्छिन्नात्यन्ताभावप्रतियोगित्वनिश्चयस्य 2 न प्रमेय, 3 योगित्वसंदेहा. 1 [ प्रथमः तत्र साधना,