पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] अंशित्वविचारः 183 - मित्युपपादितमधस्तात् । एतत्समवेतत्वं च एतदुपादानकत्वम् । न तु नित्यसम्बन्धशालित्वं, तस्यानभ्युपगमात् । नन्वयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी न, एतत्तन्त्वारब्धत्वात् व्य- तिरेकेण पटान्तरवदिति प्रतिरोधः । न चाप्रसिद्धविशेषणत्वम्, एतन्निष्ठात्यन्ताभावप्रतियोगित्वं किञ्चिनिष्ठात्यन्ताभावप्रति - योगि, संसर्गाभावप्रतियोगित्वव्याप्यत्वात् प्रागभावप्रतियोगि त्ववदिति सामान्यतस्तत्प्रसिद्धेः । न चाकाशात्यन्ताभावस्य घटादौ संसर्गाभावप्रतियोगित्वव्याप्यत्वग्रहात्तस्य च केवला- जकं, तत्तन्तु समवेतद्रव्यत्वादौ तदभावात्तत्राह - एतत्समवेतत्वमिति । एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगि, न एतदारब्धत्वादित्युक्तसाध्याभाववान् तत्पटोपादानोपादानकत्वादित्यर्थः । तेन तत्पटाव्याप्यवृत्तित्वान्न बाधः, न वा तत्संयोगजन्यत्वस्य तदारब्धत्वस्यास्मन्मते असिद्धिः । यद्यपि -- संसर्गाभावप्रतियोगित्वस्यैव तादात्म्येन हेतुत्वसम्भवाद्व्याप्यत्वांशवैयर्थ्यम्, व्याप्यत्वं च यदि यत्किश्चिद्रूपेण, तदा घटादिवृत्तित्वविशिष्टत्वेनाकाशा- भावस्यापि तदस्ति ; यदिच अत्यन्ताभावप्रतियोगितात्वेन, तदा साधन- वैकल्यम् । यदि संसर्गाभावप्रतियोगितात्वेन, तदा व्याप्यतायाः साधन- तावच्छेदकरूपाया: ' स्वव्यापकोक्तसाध्यसमानाधि' करणवृत्ति यत् संस. र्गाभावप्रतियोगितात्वं तत्त्वेन हेतुता वाच्या । तथाच संसर्गाभावप्र- तियोगितात्वस्य निवेशावश्यकत्वे तेनैव रूपेण हेतुतासम्भवादितरवै- यर्थ्यम्, किञ्चिन्निष्ठात्यन्ताभावप्रतियोगितात्वस्य तादृशप्रतियोगि- तात्वरूपेणोक्तव्याप्तौ प्रविष्टत्वेन तेनैव रूपेण हेतुतासम्भवादि- रवैय च । न चास्तु तथैवेति वाच्यम्; अप्रयोजकत्वात् । द्वितीयपक्षे साधनवैकल्यात् । अन्यथा भेदप्रतियोगितात्वेनापि उक्त- 4 प्रतियोगि- 3 कत्वेन. 1 साधारणरूपायाः. 2 व्यापकोक्तसमानाधि तात्वरूपसाध्यतावच्छेदकस्य.