पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

182 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः वृत्तित्वेन अर्थान्तरम्; पटतदभावयोरेकाधिकरणवृत्तौ विरोधस्य जगति दत्तजलाञ्जलित्वप्रसकात्, संयोगतदभावयोरप्येकाधिकर- णवृत्तित्वानभ्युपगमात् । अभ्युपगमे वा एतत्तन्तुत्वावच्छिन्न- वृत्तित्वमत्यन्ताभावस्य विशेषणं देयम् । एवमेतत्कालीनत्वमपि । तेन कालान्तरीयाभावमादाय नार्थान्तरम् | न चेह तन्तुषु पट इति प्रत्यक्षबाधः, तस्य भ्रमसाधारणतया चन्द्रप्रादेशिकत्व- प्रत्यक्षवदप्रामाण्यशङ्कास्कन्दितत्वेनाबाधकत्वात् । बाधोद्धारे च विस्तरेणैतवक्ष्यामः । न चान्यासमवेतस्यांशित्वमेतत्तन्तुसमवे- तत्वं विना न युक्तमिति विरुद्धो हेतुरिति वाच्यम् ; एतत्तन्तु- निष्ठात्यन्ताभावप्रतियोगित्वपि एतत्तन्तुसमवेतस्य सत्त्वेनांशि- त्वस्य साध्येनाविरोधात् । एतनिष्ठात्यन्ताभावाप्रतियोगित्वं हि एतत्समवेतत्वे प्रयोजकं न भवति ; परमते केवलान्वयिधर्म- मात्रस्य एतत्समवेतत्वापत्तेः । किन्त्वेताभिष्ठप्रागभावप्रतियोगि- त्वादिकम् । तच्चैतम्निष्ठात्यन्ताभावप्रतियोगित्वेऽपि न विरुद्ध उक्तबुद्धघो: मूले वृक्षवृत्तिसंयोगाभावः मूलाधवच्छिन्नवृक्षे संयोगा- भावो वा, दशायां तन्तुवृत्तिपटाभावः, दशावाच्छन्नतन्तुषु पटा- भावो वा विषय इति भावः । एततन्तु त्वावच्छिन्नवृत्तित्वं एतत्पटानवच्छेदकानवच्छिन्नत्वम् । तेन मिथ्यात्वघटकाभावस्यावच्छि- म्न्नत्वास्वीकारेपि न क्षतिः । तत्पटानवच्छेदकेत्यत्र देशकालसा- धारणमवच्छेदकत्वं निवेश्यमित्याशयेनाहं— एवमेतदिति । प्रयो- जर्क समव्यापकं, न तु व्याप्यमात्रं व्यापकमात्रं वा; आद्यो- क्तेर्व्यर्थत्वात्, द्वितीये केवलान्वयिनि वक्ष्यमाणापत्त्यसम्भवात् । केवलान्वयीति । उपलक्षणमेतत् । केवलव्यापकमपि न भवति, तत्त्वग्राहकतर्काभावादिति भावः । ननु प्रागभावप्रतियोगित्वमपि न प्रयो- 1 उक्तबुद्धेः. 1