परिच्छेदः] 181 दिभ्यः' इत्यधिकणविरोधः; उपादानव्यतिरेकेणोपादेयं नास्ती- त्यस्यैव तदर्थत्वात् । बाधात्तन्मात्राश्रितत्वेन पक्षविशषणाद्वा नार्थान्तरम् | न च प्रकृतेऽपि बाघः, तस्योदरिष्यमाणत्वात् । न चात्यन्ताभावस्य प्रामाणिकत्वाप्रामाणिकत्वविकल्पावकाशः, तस्य प्रागेव निरस्तत्वात् । न च कस्यचित्पटस्य संयोगवृत्त्यै- तत्तन्तुषु सत्वेन तत्र व्यभिचार इति वाच्यम् ; तत्समवेतस्य तन्निष्ठात्यन्ताभावप्रतियोगित्वमकीकुर्वतः तत्संयोगिनस्तनिष्ठा- त्यन्ताभावप्रतियोगित्वाङ्गीकारेण पक्षसमत्वात् । न चाव्याप्य- न च मण्यादिसंयोग एव प्रतिबन्धकमिति वाच्यम्, तत्त्वेन प्रति- बन्धकत्वे गौरवात् । बदरे कुण्डं नेत्यादिधीस्तु वृत्तिनियामकसंयोगे- नाभावविषयिका । अतएव तत्सत्वेऽपि संयोगेन कुण्डीयं बदरमित्या- दिघी: । अतएव पृथिवीत्वादिकं प्रति संयोगेन गगनादेर्व्यापकत्वोक्ति- प्रस्तावे गगनाभाववतोऽपि पृथिव्यादेः संयोगेन तत्सम्बन्धित्वादिति दीधितिवाक्ये उत्पत्तिकालावच्छेदेन संयोगेन समवायेन वा गगनाभावः पृथिव्यादाविति व्याचक्षते । अथवा भेदसत्त्वेन तादात्म्यसम्बन्ध- संभवोक्तिद्वारा स्वोपादाननिष्ठात्यन्ताभावप्रतियोगिस्वतादात्म्यैकत्वमेव मिथ्यात्वमिति ज्ञापितम् । कथंचिदिति । प्रातीतिकस्येत्यर्थः । तादा- त्म्यसम्बन्धत्वान्यथानुपपत्त्या भेदकल्पनात् भेदोपजीव्यत्वेनाभेदरूपता- दात्म्यस्य व्यावहारिकत्वादिति भावः । बाधादिति । कारणाना- श्रितस्यापि पटादेर्भूतलाद्याश्रितत्वादनाश्रितत्वबाध इति भावः | तन्मा- त्राश्रितत्वेनेति । स्वोपादानान्यस्मिन् तादात्म्यसम्बन्धेनानाश्रितत्वेने- त्यर्थः । तेनान्यतादात्म्यवत्त्वेनापि नार्थान्तरम् | प्रामाणिकत्वेति । तात्त्विकत्वत्यर्थः । प्रागेवेति । तात्त्विको व्यावहारिको वेत्यादेरुक्त- त्वादित्यर्थः। ननु मूले वृक्षे न तत्संयोग इतिवत्तन्तुषु दशायां न पट इति प्रतीतेः तादात्म्येन पटस्य अव्याप्यवृत्तित्वं तत्राह संयोगेति । , अंशित्वविचारः
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२०१
दिखावट