पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

186 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः हेतुरिति न किञ्चिदनुपपन्नम् । एवमन्येषामपि प्रयोगा यथा- योगमुपपादनीया इति शिवम् ॥ इत्यंशित्वविचारः. चिदाभासं विनापि यत्प्रकाशते तदन्यत्वं, स्वप्रकाशान्यत्वमिति यावत् । स्वावच्छिन्नचिद्विषयत्वं वा, जडानामेव चिदवच्छेदकत्वान्न ब्रह्मणि तत् । अथवा ज्ञानं सदात्मकं चिद्रूपम् । तथाच सत्तादात्म्याविषयकबुद्ध्यविषय- त्वादिरूपः प्रत्येकं तदनुविद्धतया प्रतीयमानत्वादित्युक्तहेतुः पर्यवसन्नः । सदविषयकबुद्ध्यविषयत्वस्य ब्रह्मण्यपि सत्त्वात्तादात्म्यनिवेशः । चिदा- भासशब्दस्यापि सत्तादात्म्यार्थकत्वाञ्चिदाभासेत्या देरुक्तार्थकत्वम् । एवंच बौद्धोक्तस्सहोपलम्भहेतु'रयमिति भ्रान्तिरेव । अर्थो ज्ञानभिन्नो ज्ञाना- विषयकबुद्ध्यविषयत्वादित्यस्यैव बौद्धानुमानस्य बौद्धाधिकारे उक्तत्वात् । एतेन - ज्ञानात् ' भेदेना नुपलभ्यमानत्वं ज्ञानाभावप्रयुक्तोपलब्धिविरहकत्वं वा हेतु: ; नाद्यः, पटस्य ज्ञानं न तु पट इत्यसिद्धेः, नान्त्यः, ज्ञान मेवा_ पलब्धिरिति स्वस्य स्वाप्रयुक्तत्वादित्यादि परास्तमित्याह - न किञ्चिदिति ।। 2 - ननु विमतं मिथ्या, घांकाल एवान्यथा प्रमितत्वाच्चित्रनिम्नोन्न- तादिवत्, भारूपवत्सुसंलमत्वात् सवितृ च्छिद्रादिवत् ; न चासिद्धिः, धकिाल एव 'इदं सर्व यदयमात्मा' इति श्रुत्या सर्वानात्मन आत्म- त्वेन प्रमितेः, घटादि स्फुरतीति भारूपसंलग्नत्वाचेति कौमुदी । तत्रान्यथेत्यात्मत्वेनेत्यर्थे सदात्मत्वेन' प्रमितत्वस्यामिथ्यात्वव्याप्यत्वा- द्विरुद्धो हेतुः, प्रतिपन्नोपाधौ निषेधप्रतियोगित्वेनेत्यर्थे तु असिद्धियर्थ- विशेषणता च; द्वितीयस्तु सवित्रात्मनोः व्यभिचारी, 'सविता प्रकाशते आत्मा स्फुरति' इति तयोः भारूपसंलग्नत्वादित्यत आह - एवमन्येषामिति । अन्यथा प्रमितत्वादित्यस्य प्रपञ्चविलक्षणाखण्डानन्द- ज्ञानत्व. 5 सचित्र. 4 3 तन्तुपट. ज्ञानत्वात्. 1 सदोपालम्भो हेतु. 2 6 त्वेनेत्यर्थः तदात्मत्वेन. ·