पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

158 अद्वैतसिद्धिव्याख्यां गुरुचन्द्रिकायां [ प्रथमः ब्रह्माण न स्यात् । ऐक्ये जीवस्य हि जन्यत्वं व्याप्यत्वं वा सबन्धः । नाद्य; तस्य ब्रह्मरूपत्वेनाजन्यत्वात् । नान्त्य; यदा ऐक्यं तदा जीव इत्यत्र सर्वमुक्तौ व्यभिचारात् । यत्रैक्यं तत्र जीव इति दैशिकव्याप्तौ जीवे व्यभिचारात् । 'अस्ति ब्रह्म' इत्यत्र लकारो न पदसाधुत्वार्थः; योगक्षेमसाधारणीं सत्ताक्रि- यासिद्धिं प्रति स्वातन्त्र्यरूपकर्तृत्वस्य तत्रापि संभवेन अर्थसाधु- त्वसम्भवात् । तार्किकेश्वरज्ञानवदित्याद्यपि न युक्तम् ; तार्कि- कमते हि प्रमात्वं न गुणजन्यतावच्छेदकं, येन ईश्वरज्ञाने न स्यात् । किन्तु तत्तत्प्रमात्वम् । उक्तं हि मणिकौरः --' प्रमामात्रे नानुगतो गुणः' इति । तथाच दोषाजन्यत्वादीश्वर ज्ञानं प्रमैवेति नोभय- बहिर्भावः । अतएव नित्यसाक्षात्कारप्रमाया आश्रयत्वेन ईश्वरः प्रत्यक्षप्रमाणमित्युक्तमुदयनाचार्यैः । तद्वति तत्प्रकारकज्ञानत्वं न मुख्य- प्रामाण्यं, स्मृतौ सत्त्वात् निर्विकल्पके चासत्त्वात् । किन्तु विशेष्या- वृत्त्यप्रकार कानुभवत्वमित्युक्तमन्यैस्तार्किकैः; अतो निर्विकल्पकमपि प्रवेति चैतन्यस्य ज्ञानत्वे प्रमाश्रमान्यतरत्वमावश्यकम्” इति, तत्तुच्छम् ; ज्ञानस्याध्यासिकसम्बन्धनियमोक्तौ वृत्तौ व्यभिचारोक्तघ- सङ्गतेः । वृत्तेरज्ञानत्त्वात्, वृत्तेरात्मनाऽऽध्यासिकसम्बन्धस्यापि सत्त्वात् । अहंकारोपहितात्मनि तदध्यासे केवलात्मन्यप्यध्यासात् । अन्यथा जन्यमात्रोपादानत्वभङ्गापत्तेः । आत्मनि च फलव्याप्यत्वहेतुर्यथा नास्ति तथोक्तमस्माभिः । परोक्षत्याद्यपि न युक्तम् ; वृत्तेरज्ञानत्वात् परोक्ष- वृत्तिस्थले साक्षिाण वयादेरज्ञानविरोधित्वादिरूपोक्तसम्बन्धस्य अता- त्त्विकत्वात् । अतात्त्विकस्यैवाध्यासिकशब्देनोक्तत्वात् । कल्पिततादा- म्यस्य आध्यासिकशब्दार्थत्वे तादात्म्यरूपत्वे निरूपयितुमशक्यत्वा- दिति हेत्वनुपपत्तेः । घटमिच्छामत्यित्र च प्रकारतया ज्ञानरूपोपाधि- । त्वादिदं. 2 विशेष्यावृत्तिप्रकार. -