पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारच्छेदः] दृश्यत्वनिरुक्तिः 159 सम्बन्धस्यानुल्लेखेऽपि सम्बन्ध तथा तदुल्लेखानपायात् । अन्यथा सम्बन्धा- न्तरकल्पने गौरवात् । अतिरिक्तविषयतारूपसम्बन्धान्तरकल्पनेऽपि तस्याविद्यकत्वात् सविषयकत्वमात्रस्य तात्त्विकत्वाभावे प्रकृतग्रन्थता- त्पर्यसम्भवात् । व्यक्तिं विनेत्याद्यपि न युक्तम् ; व्यक्तयविषयकजा- त्यनुमित्यादिसम्भवात्, ध्वंसो घटत्वाद्यप्रतियोगिक इत्यनुमित्यादेः सर्वसम्मतत्वात् । आद्यनियमे व्यभिचारात् । घटायविषयकघट- त्वादिभ्रमदोषविशेषजन्यतया लौकिकप्रत्यक्षे द्वितीयनियमे व्यभि चारात् । कालिकसम्बन्धेन पटे घटत्वप्रत्यक्षं भवत्वितीच्छाजन्ये वड्यनु- मित्यादिसामग्रीकालीने घटाविषयके घटत्वप्रत्यक्षे व्यभिचाराच्च । तत्रेच्छानुरोधेन घटत्वादिभानेऽपि भिन्नविषयकानुमितिसामग्रघा प्रति- बन्न घटाभानात् घटत्वे सन्निकर्षसत्त्वे तस्य लौकिकप्रत्यक्षत्वसम्भ- वात् समवायेन जातिप्रत्यक्षप्रमाया व्यक्तिविषयकत्वानियमे च तदा- पादनासंभवात्कालिकेति ज्ञानविषयोभयवैशिष्ट्यावगाहिज्ञानस्य विषय- विषयक त्वनियमस्य युक्तत्वात् । मन्मते ज्ञानस्य स्वप्रकाशत्वेन विषया- विषयकप्रत्यक्षाविषयत्वस्य तत्रेष्टत्वात् । यदा यस्य प्रत्यक्षं तदा स इति नियमे स्वोत्पत्तिक्षणत द्वितीयक्षणविनाशिघटादिप्रत्यक्षे त्वन्मतेऽपि व्यभिचारात् । यदैन्द्रियकं ज्ञानं तदाऽर्थ इत्याचार्योक्तिस्तु स्वाव्यव- हितपूर्वत्वसम्बन्धेन व्याप्यत्वाभिप्रायेण विषयस्य कार्यसहभावेन प्रत्यक्ष- हेतुत्वमाश्रित्य स्वोत्पत्तिक्षणत्वसम्बन्धेन व्याप्यताभिप्रायेण वा जन्या- परोक्षत्वेन वाऽर्थव्याप्यतेत्यप्याचार्यवाक्यं तथैव योज्यम् । तादात्म्येन व्याप्यता कालिकेन व्यापकतेति वा तत्र बोध्यम् । यदा ऐक्यं तदा जीव इति व्याप्तौ सर्वमुक्तौ व्यभिचारोक्तिस्तु नामूढस्य । सर्वमुक्तौ कालाद्यभावात् सर्वमुक्तिर्भाविष्यतत्यिादिरूपेण कल्पितः काल इदानीं- तनः । यत्र ऐक्यं तत्र जवि इति दैशिकव्याप्तिमष्टा । यत्रैक्यमि- त्यायुक्तिरपि मोहादेव । किंच नास्मत्सिद्धान्ते जीवेश्वरयोस्क्यं, येन 1 संबद्ध. 2 साभग्रीप्रतिबन्धेन. 3 व्याप्तिरप्यविदुषां. 3: