पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] जडत्वनिरुक्तिः षणीयः । तुच्छे पञ्चमप्रकाराविद्यानिवृत्तौ च व्यभिचारपरि- हार: पूर्ववत् । एवमस्वप्रकाशकत्वं वा जडत्वम् । तच्च पूर्व- मेवोपपादितमिति शिवम् ॥ इति जडत्वहेतूपपत्तिः. 157 उपाधिं स्वप्रतियोगितावच्छेदकं अर्हति तत्समानाधिकरणं भवती- त्यौपाधिकम् । तदन्यत्वेन स्वप्रतियोगिवृत्तिभिन्नत्वेनेति यावत् । घटादिभेदमादाय ब्रह्मणि व्यभिचारात् शुद्धब्रह्मप्रतियोगिक- मेदेति विशेष्यं वाच्यमिति भावः । शुद्धब्रह्मणो ज्ञानपदजन्यतद्धी- विशेष्यत्वेन आनन्दपदजन्यतद्धीविशेष्यत्वेन च निवेशाद्धेत्वोर्भेदः । तादृशविशेष्यताव्यक्त्यवच्छिन्न प्रतियोगिता कभेदत्वेन वा निवेश: । तेन स्वरूपतो ब्रह्मव्यक्तिनिवेशसम्भवेन तादृशविशेष्यताघटितस्य न व्यर्थविशेषणत्वशङ्केति ध्ययम् । यत्तु – “यदि ज्ञानस्य विषयेणाध्या- सिकः सम्बन्धस्तर्हि चरमवृत्तावात्मा विषयो न स्यात् । न च वृत्ति प्रतिबिम्बितचैतन्यरूपस्य ज्ञानस्य विषयेणाध्यासिक सम्बन्ध इति वाच्यम् ; चरमवृत्तावपि अज्ञाननिवर्तकत्वाय चित्रतिबिम्बावश्यक- त्वात् । तादृशप्रतिबिम्बितचितः आध्यासिकसम्बन्धरूपविषयत्वस्यात्म- न्यङ्गीकारे फलव्याप्यत्वहेतोः तत्र व्यभिचारात् । परोक्षवृत्तौ चाती- न्द्रियं विषयो न स्यात् तत्र तस्यानध्यासात् । तस्मात् ज्ञाने विषयसम्बन्धः स्वाभाविकः । एवमिच्छायामपि उपाध्यनुल्लेखेन घट- मिच्छामीत्यनुभवात् जातेर्व्यक्तिनिरूप्यत्वेऽपीत्याद्यपि न युक्तम् ; व्यक्तिं विना प्रलये जातिसत्त्वेऽपि व्यक्त्युपरक्तषीविषयत्वं जातेरन्यदस्त्येवेति जात्यादे: व्यक्त्याद्यनुपरक्तबुद्ध्यविषयत्वस्य व्यक्त्याद्यनुपरक्तप्रत्यक्षा- विषयत्वस्य वा नियमवत् ज्ञेयाद्यनुपरक्तबुद्धयविषयत्वस्य ज्ञेयाधनुपरक्त- प्रत्यक्षाविषयत्वस्य वा ज्ञाने नियमसम्भवात् । किंचैवमैक्यं जीवस्य •