पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिडिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः ज्ञानपदवाच्यत्वात्तत्रासिद्धिः, ज्ञानपदलक्ष्यमित्रत्वविवक्षायां तु घटादेरपि ज्ञानपदलक्ष्यत्वात् तत्राप्यसिद्धिरिति वाच्यम्; ज्ञानपदजन्यप्रतीतिविशेष्यभिन्नत्वविवक्षायामुक्तदाषाभावात् । एवमानन्दभिनत्वरूपमनात्मत्वमुपपाद्यम्; वैषयिकानन्दस्यापि ब्रह्मरूपत्वात् तदुपाधिमात्रस्यैवोत्पत्तिविनाशप्रतियोगित्वात् । न च ज्ञानभिन्नत्वस्य आनन्दभित्वस्य च काल्पनिकस्य ब्रह्मणि सत्त्वात् तत्र व्यभिचार इति वाच्यम् धर्मिसम सत्ताकत द्भेदस्य हेतुत्वात् । अनौपाधिकत्वेन वा भेदो विशे- चित्तु न प्रमा, अज्ञाता गोचरत्वात् । 'जीवेशभेदादेरनादित्वेऽपि तदव- च्छिन्ना चित् आवरणभञ्जकवृत्तिविशिष्टतया गुणजन्यैव | शुक्तिरूप्या- द्यवच्छिन्नरूपेण तु चित् आगन्तुकदोषजन्यैव | शुद्धरूपेण तु सा प्रमा भ्रमो वा नेति न कोपि दोषः । ज्ञानपदवाच्येति । शक्तचा ज्ञाषातुजन्यप्रतीतिविषयेत्यर्थः । तेन शुद्धवाच्यतापक्षे उपाधेरवाच्य- त्वेऽपि उपाधेरित्यादेः नासङ्गतिः । विशेष्यभिन्नत्वस्य शुद्धब्रह्मनिष्ठत- द्धीविशेष्यताव्यक्तय वच्छिन्न प्रतियोगिताकभेदस्य | तेन घटादेरपि तादृ- शविशेष्यत्वेऽपि नासिद्धिः, गुरोरनवच्छेदकत्वेऽपि न वा क्षतिः । तदुपाधीति | विषयसेवाजन्यवृत्तिविशेषेत्यर्थः । नन्वव्याप्यवृत्तिविशेष्य- त्वबद्भेदस्य अव्याप्यवृत्तित्वपक्षे ब्रह्मणि व्यभिचारः । न च ब्रह्मण आवृ- तत्वेन तत्र भेदस्य प्रत्यक्षतया तत्प्रतियोगिता अवच्छिन्नेति वाच्यम्; जीवन्मुक्तौ तत्प्रत्यक्षतासम्भवादिति शङ्कते – न चेति । ज्ञानभिन्न- त्वस्य - ज्ञानपदजन्य तद्धीविशेष्यभिन्नत्वस्य । आनन्दाभिनत्वस्य - आनन्दपदजन्यतद्धीविशेष्यभिन्नत्वस्य । धर्मिसमसत्ताकेति । शुद्धब्रह्म- वृत्तिभिन्नेत्यर्थः । विशेषणतया शुद्धब्रह्मवृत्ति यत् तदन्यत्वेन विशेषण तथा हेतुत्वसम्भवात् विशेष्यांशवौयर्थ्यादाह- अनौपाकिकत्वेनेति । 1 अज्ञाना. 2 जीवेशभेदा.. - । गुणजन्यैव नास्त्यैतत्कोशान्तरे. 156