पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

140 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः सम्बन्धस्य अभावात् । अतो न व्यभिचारः । तुच्छे च व्यभिचारः परिहारणीयः । यद्या स्त्रव्यवहारे स्वातिरिक्तसंविद- पेक्षानियतिरूपं दृश्यत्वं हेतुः । संविच्छब्देन विषयाभिव्यक्तं वा वृत्त्यभिव्यक्तं वा शुद्धं वा चैतन्यमात्रमभिप्रेतम् । तथाच घटादौ नित्यातीन्द्रिये साक्षिभास्ये च सर्वोपि व्यवहारः स्वातिरिक्तसंवित्सापेक्ष इति नासिद्धिः । व्यवहारश्च स्फुरणाभि- वदनादिसाधारणः । तत्र ब्रह्मणः स्फुरणरूपे व्यवहारे नित्यसिद्धे स्वातिरिक्तसंविदपेक्षा नास्तीति नियतिपदेन व्यभिचारवारणम् । तुच्छ इति । स्वज्ञानाबाध्यत्वोक्तिपक्षे तुच्छज्ञान बाध्य 'त्वाप्रसिद्धेः तदनुक्तिपक्षे तुच्छावृत्तित्वेन सम्बन्ध विशेषणात् तादात्म्यसम्बन्धस्यैव निवेशाद्वेति शेषः । प्रातिभासिकज्ञानमपि स्वमादौ स्वाभावज्ञान- बाघकमिति स्वज्ञानबाध्यतायोग्यताप्रसिद्धेर्न साधनवैकल्यम् | विष- याभिव्यक्तं – विषयावच्छिन्नेनावरणेन शून्यम् । वृत्त्यभिव्यक्तं वृत्तिप्रतिबिम्बितम् । सर्वोपीति | इच्छाप्रवृत्त्यादिरित्यर्थः । अविद्यादेः स्वावच्छिन्नचिद्रूपं स्फुरण मनाद्यप्यनवच्छिन्नचित्सापेक्षं तदाश्रितत्वात् प्रयुक्तत्वरूपसापेक्षत्वस्या' नादावपि सम्भवादिति भावः । स्फुरणमस- त्त्वापादकाज्ञानविरोधि चैतन्यं, ताप्येण स्फुरणस्य निवेशेऽपि न क्षतिः, ब्रह्मस्फुरणापेक्षणीयशुद्धचैतन्यस्य ब्रह्मातिरिक्तत्वाभावादित्याशगेनाह-- तत्र ब्रह्मण इत्यादि । नित्यसिद्धे इति । नित्यसिद्धब्रह्माश्रिते इत्यर्थः । इदं च नास्तीत्यत्र हेतुगर्भ विशेषणम् । स्वातिरिक्तेति । स्ववि- लक्षणेत्यर्थः । स्वावृत्तिधर्माश्रयेति यावत् । तेन ब्रह्मणः स्वस्मिन् स्वात्मक सत्यत्वादिधर्मत नियामककल्पितभेद सत्त्वेऽपि न क्षतिः । अत्रो- क्तविशिष्टस्फुरणस्य स्वातिरिक्तवृत्तिसापेक्षत्वात् संवित्पदेन पूर्व चैत- न्यमुक्तम् । अथवा नित्यसिद्धे ब्रह्मस्वरूपे । तथाच घटादिस्फुरण- -1 तुच्छज्ञानतुच्छबाध्य. 2 संबन्धि. 3 साक्षित्वस्या.