पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] दृश्यत्वानरुक्तिः 139 यद्वा दृश्यत्वं चिद्विषयत्वम् । तच्च यथाकथंचित् चित्स- म्बधित्वरूपं हेतुः । तच्च न चैतन्ये, अभेदे भेदनान्तरीयकस्य - मपि न वृत्तिविशेषविषयत्वं, किन्तु असत्त्वापादकाज्ञानविरोधि चिद्रूपम् । उक्तविरोधित्वं च सुखाद्यवच्छिन्नचिति स्वत, तदन्याचति तु वृत्त्या | तच्चापरोक्ष्यादिकम् । यद्यपि ब्रह्म स्फुरति, ब्रह्मास्तीत्या दावसंसृष्टमेव भासते; तादृशवाक्ये लकारस्य साधुत्वार्थकत्वस्योक्तत्वात् । तथापि घट: स्फुरतीत्यादौ घटादौ तत्तादात्म्यं भासत एवेति चिद्विषयत्वमाच- न्मात्रस्यावश्यकम् । प्रभादिप्रतिफलिते च प्रभायन्तरे न कापि युक्ति- रिति न तदापादनम् । न चैवमपरोक्षज्ञानत्वं चितीव वृत्तावपि वाच्यमिति परोक्षत्वापरोक्षत्वयोः' चैतन्यरूपमुख्यज्ञानत्वं वृत्तिरूपगौण- ज्ञानत्वं प्रति वा व्याप्यता न स्यादिति वाच्यम्; मुख्ययोः परो- क्षापरोक्षज्ञानत्वयोः मुख्यज्ञानत्वव्याप्यतायाः अमुख्ययास्तयोरमुख्य- ज्ञानत्वव्याप्यतायाः सम्भवात् अज्ञानसामान्यविरोध्यज्ञानविशेषविरोधि- चित्त्वाभ्यां चितो मुख्यापरोक्षपरोक्षरूपत्वात् तादृशचिदात्मक विषयकत्वेन वृत्तेरमुख्यापरोक्षतासम्भवात् । तस्मात् फलव्याप्यत्वहेतुरपि निर्दोषः । फलव्याप्यत्वव्यतिरिक्तस्येत्याद्याचार्योक्तिस्तु स्वाकारवृत्त्यभिव्यक्तचैतन्य - विषयकत्वाहेतुत्वपरा : तस्योक्तमायावृत्त्याप्यतीन्द्रियेष्वसम्भवात्, अज्ञान- निवृत्तिरूपाभिव्यक्तेः मायावृत्त्यप्रयोज्यत्वात् । भेदनान्तरीयकस्येति । ययोर्भेदस्तयोरेव सम्बन्ध इत्यर्थः । भेदाभेदानुमानविवेचने विवेचि- तमस्मामिरेतत् । यद्यपि कल्पितश्चित्सम्बन्धश्चैतन्येप्यस्ति, सत्यत्वादिरूपस्य तस्य स्वधर्मतास्वीकारात् । तथाऽपि स्वज्ञानाबाध्यचित्सम्बन्धवत्त्वं वाच्यम् । अथवा भेदनान्तरीय कस्येति भेदघटितत्यर्थः । सम्बन्धस्य चित्सम्बन्धित्वपदार्थस्य । तथाच चिदन्यनिष्ठचित्सम्बन्धो हेतुरिति भाव । ननु चितः स्वावच्छेदकवृत्तिव्याप्यत्वसम्बन्धस्तुच्छेपीत्यत आह - 1 परोक्षापरोक्षज्ञानत्वयोः