पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] दृश्यत्वानरुक्तिः 141 स्वगोचरयावद्भ्व्यवहारे स्वातिरिक्तसंविदपेक्षायां र्पयवसानात् । अत एवास्वप्रकाशत्वरूपं दृश्यत्वमपि हेतुः । स्वप्रकाशत्वं हि स्वा- परोक्षत्वे स्वातिरिक्तानपेक्षत्वम् । 'यत्साक्षादपरोक्षाब्रह्म' इति श्रुतेः । तथाचान्यानधनापरोक्षत्वं पर्यवस्यति । तनिरूपित- भेदबत्त्वं हेतुः । तच्च नित्यपरोक्षे अन्याधीनापरोक्षे च घटादा- वस्तीति नासिद्धिः । न च ब्रह्मणोऽपि ब्रह्मप्रतियोगिककाल्पनिक- भेदवत्त्वात्तत्र व्यभिचार :, अकल्पितभेदस्य क्वाप्यसिद्धत्वादिति स्योक्तविरोधिचिद्रूपत्वेऽपि शुद्धचिद्रपब्रह्मणः स्फुरणं शुद्धचिदेव, आवृ- ताया अपि तस्याः चिन्मात्रमस्तीत्यभिलापादि' दर्शनादिति भावः । स्वगोचरेत्यादि । स्वस्फुरणाद्यन्यतमत्वव्यापकस्वातिरिक्तचित्प्रयुक्तता- कत्वे पर्यवसानादित्यर्थः । स्वातिरिक्तचित्प्रयुक्तस्फुरणकत्वं सापेक्ष- म्फुरणस्वरूपकत्वं वा हेतुर्लघुर्बोध्यः || स्वापरोक्षत्वे इति । अपरोक्षत्वमज्ञानसामान्यविरोधि चैतन्यम् | स्वातिरिक्तेति । स्वविलक्षणचिदित्यर्थः । तेनाज्ञानविरोधित्वरूपेण वृत्त्यपेक्षत्वेऽपि न क्षतिः; वृत्त्यसत्त्वेऽपि चिन्मात्रं भातीति व्यवहा- रात् । शुद्धचैतन्यस्यापरोक्षताकत्वे तु स्वातिरिक्तं न निवेश्यम् । अनपेक्षा- परोक्षताकत्वस्य ब्रह्माण सत्त्वात् साक्षादपरोक्षात् स्वविलक्षणचिदन- पेक्षापरोक्षताव.मनपेक्षापराक्षताकं वा अविद्याद्युपहितचिद्रूपम विद्याद्यप- रोक्षत्वं शुद्धचित्सापेक्षमेव । तभिरूपितेत्यादि । तदवच्छिन्नानुयोगि- ताकस्य स्वभेदस्य प्रतियोगित्वमित्यर्थः । ब्रह्म स्वप्रकाशं नेति बुद्धया स्वप्रकाशत्वावच्छिन्नप्रतियोगिताकस्य शुद्धब्रह्मानुयोगिकभेदस्य कल्पन - सम्भवात् स्वप्रकाशत्वावच्छिन्नप्रतियोगिता कभेदानुयोगित्वं नोक्तम् । स्वप्रकाशं ब्रह्म नेति बुद्धिस्तु ईश्वरत्वादिधर्मोपहितप्रतियोगिकं भेद- मवगाहते, न तु शुद्धब्रह्मप्रतियोगिकम् । अभावप्रत्यक्षे शुद्धस्य प्रति- 1 त्यालापादि. 2 स्वविलक्षणचिदनपेक्षताकं. 3 कल्पना,