पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] दृश्यत्वनिरुक्तिः 133 व्याख्या मस्त्यैव । एतेनोपाधिविषयज्ञानानामज्ञानानिवर्तकत्वं तम् । अज्ञानस्योपाध्यविषयत्वेन समानविषयत्वाभावात् । समा- नविषयत्वेनैव तयोर्निवर्त्यनिवर्तकभावात् । वस्तुतस्तु शब्दाजन्य- वृत्तिविषयत्वमेव दृश्यत्वम् । अन्यथा 'शशविषाणं तुच्छम् ' इत्यादिशब्दजन्यवृत्तिविषये तुच्छे व्यभिचारस्य दुरुजरत्वात् । एवंच सति शुद्धस्य वेदान्तजन्यवृत्तिविषयत्वेऽपि न तत्र व्यभि- चारः, तुच्छशखयोः शब्दाजन्यवृत्तिविषयत्वानभ्युपगमात् || तेन न पञ्चम्यसङ्गतिः । उपाधिविषयकेति । सत्यन्तव्यावर्येत्यर्थः । समानविषयकत्वेनैवेति । समानाविषयकत्वव्याप्यं निवर्त्यनिवर्तकत्व- मित्यर्थः । तेन चैत्रो' ब्रह्मेति वाक्यजन्यस्योपहित ब्रह्मविषयकस्य उक्तस- मानविषयकस्य स्वसमानाधिकरणसंसारप्रयोजकाज्ञाना निवर्तकत्वेऽपि न क्षतिः । शक्तिविशेषवत्त्वेनैव स्वपरिणाम्यज्ञानत्व सम्बन्धेन स्वहेत्वज्ञानत्व- सम्बन्धेन वा कारणत्वम् । अज्ञानोपहित ब्रह्मान्याविषयकाज्ञानवृत्तिप्रतियो- गितासम्बन्धेन नाशत्वेन कार्यत्वम् | यस्य मूलाज्ञानस्य येन ब्रह्मज्ञानेन नाशः तस्य शक्तिविशेषविशिष्टस्य ज्ञानस्य स्वपरिणामिनः परिणा- म्यज्ञानत्वसम्बन्धेन तत्र सत्त्वात् शुक्त्याद्यज्ञाने व्यभिचारापत्ते: वृत्स्य- शुक्त्याद्य वच्छिन्नविषयताशाल्यज्ञानवृत्तिप्रतियोगितासम्बन्धेन नाशं प्रति स्वपरिणामिमनोवच्छिन्नाश्रयताकाज्ञानत्वसम्बन्धेन शुक्तित्व- प्रकारताकज्ञानत्वेन कारणत्वम् । ज्ञानत्वजात्यस्वीकारे निश्चयत्वजातिर्नि- वेश्येति दिक् । एवंचोपहितब्रह्मान्याविशेषितोपहित ब्रह्मविषय कज्ञानत्वं तात्त्विक प्रमात्वम् । यादृशरूपविषयकस्य व्यावहारिकप्रमाबाघ कत्वं तादृशरूपविषयकज्ञानत्वस्यैव तात्त्विकप्रमात्वरूपत्वात् । अतस्तादृश- ज्ञानस्य अप्रमात्वापत्ति ज्येनैव । न चोपहितब्रह्मण आकाशादिबाधक- धीविषयत्वानुपपत्तिः, आकाशाद्यधिकसत्ताकत्वाभावात्, यद्यद्वाघकधी- 1 च ईशो. 2 स्वोपहित. 3 ज्ञान.