पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

132 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः नमपि हि स्वोपधानदशायामेव ब्रह्म विषयीकरोति स्वानु- पधानदशायां स्वस्यैवाभावात् । तथाच ज्ञानाज्ञानयोरुभयोर- प्युपाध्यविषयकत्वे सत्युपहितविषयकत्वात् समानविषयकत्व- शिष्टस्यतरव्यावर्तकं यद्वियमानं तत्र तदुपाधिः, यथा घटकारणत्वे दण्डत्वमिति लक्षणादिति भावः । उपहितविषयत्वादिति । ज्ञानस्या- ज्ञाननाशकत्वपक्षे ज्ञानाज्ञानयोः अन्याविशिष्टज्ञानपरासमूहालम्बनं स्यादेव ; अज्ञानोपहितविषयकत्वसम्भवात् । एकविषयत्वेपि तस्य तन्नाशकत्वपक्षे तयोः स्वोपहितविषयकत्वेपि नैकविषयकत्वम् । अतः तन्नोक्तम् । अज्ञानादिविशिष्टविषयकमप्युपहितविषयकं, विशेष्यतापन्नस्य विषयत्वेऽपि क्षत्यभावादित्युक्तत्वात् । अतः उपाध्यविषयकत्वे सतीति । स्वोपहितब्रह्मान्याविषयकत्वे सतीत्यर्थः । तावन्मात्रं निर्विषय के तुच्छव्यवहारजनके विकल्पेपीति उपहितविषयकत्वादि- त्युक्तम् । सविषयकत्वादिति तदर्थः । तुच्छवृत्तेः सविषयकत्वमते तु विशेष्यदळं न देयम् । ज्ञानस्याज्ञानतत्प्रयुक्ताविषयकत्वनियमास्वीकारे तु विषयत्वानिरूपितेत्यम्य सत्यन्तेन लाभात् तादृशी या उपहितब्रह्म- विषयता तच्छालित्वं दळद्वयार्थः । तच्च 'अहं ब्रह्म, घटो मेयः ' इत्यादिसमूहालम्बनज्ञानेऽप्यक्षतम् । ब्रह्मभिन्नविषयकज्ञानाज्ञानयोस्तु अज्ञानतत्प्रयुक्त विषयकत्वे सति अज्ञानविषयतावच्छेदकविषयकत्वं ज्ञानस्य अज्ञानसमानविषयकत्वम् । ज्ञानस्याज्ञानतत्प्रयुक्ताविषयकत्व- नियमस्वीकारे तु सत्यन्तं न वाच्यम् ।' यादृशी अवच्छेदकता तादृशी ज्ञानस्य विषयता वाच्या । तेन शुद्धतद्व्यक्तचवच्छिन्नविषयताकाज्ञानस्य शुद्धत व्यक्तिविषयकज्ञानं, शुद्धशुक्तित्वादिविशिष्टावाच्छन्नविषयताकाज्ञा- नस्य शुद्धशुक्तित्वप्रकारकं ज्ञानं, जातित्वादिविशिष्टशुक्तित्वादिविशिष्टा वच्छिन्नविषयताकाज्ञानस्य तादृशशुक्तित्वादिप्रकारकज्ञानं समानविषय कम् । समानविषयकत्वमिति । एकविषयत्वपदेन पूर्वोक्तार्थ इत्यर्थः