पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] दृश्यत्व निरुक्तिः 131 एवोपधायकत्वाभ्युपगमात् । तदुक्तं कल्पतरुकृन्द्भिः – “शुद्धं ब्रह्मेति विषयी कुर्वाणा वृत्तिः स्वस्वेतरोपाधिनिवृत्तिहेतुरुदयते, स्वस्याप्युपाधित्वाविशेषात् । एवंच नानुपहितस्य विषयता, वृत्युपरागोऽत्र सत्तयोपयुज्यते न भास्यतया विषयकोटिप्र- वेशेन ” इति । अयमभिप्रायः -- यथा अज्ञानोपहितस्य साक्षि - त्वेऽपि नाज्ञानं साक्षिकोटौ प्रविशति जडत्वात्, किन्तु साक्ष्य- कोटावेव । एवं वृत्त्युपहितस्य विषयत्वेऽपि न वृत्तिविषय- काटौ प्रविशति, स्वस्याः स्वविषयत्वानुपपत्तेः । किन्तु स्वय मविषयोऽपि चैतन्यस्य विषयतां सम्पादयतीति न काऽप्य- नुपपत्ति: । एतेन ज्ञानाज्ञानयोरेकविषयत्वं व्याख्यातम् । अज्ञा- 'न बुद्धि मर्दयन् दृष्टो घटतत्त्वस्य वेदिता । उपमृद्गाति चेद्बुद्धिं ध्याताऽसौ न तु तत्ववित् || ' इति ध्यानदीपे श्रीविद्यारण्यैरुक्तम् । बुद्धेर्मईनमितरविषयकत्वविघटनम् । तच ध्यानोपयुक्तम् । अन्यथा इतरविषयकज्ञानस्योत्पत्तौ ध्यानत्वस्येतर- विषयकज्ञानाभावविशिष्टज्ञानघारात्वस्य' हानापत्तेः । न तु तत्त्ववेदनमात्रो- पयुक्तमिति तदविषयकस्यापि तत्त्वविषयकत्वसम्भवात् । पराभिमत- बाघसामग्रयाः प्रतिबन्धकत्वस्य परैः क्लृप्तत्वेपि अखण्डब्रह्मघीसामग्रया: तन्मते अलीकत्वेन तत्प्रतिबन्धकत्यस्य अक्लप्तत्वात् तत्कल्प्यत्वे सिद्धान्ते गौरवापत्तेः, तत्र प्रयोजनाभावाच्च । विवरणादिवाक्यं तु ब्रह्मज्ञानोत्पत्त्युत्तरं प्रारब्धभोगाभावकाले द्वैतप्रत्ययोत्पत्त्यभावपरं योजनीयम् । निवृत्तिः निवर्तिका । विषयतां सम्पादयति- अविषयात् शुद्धात् विषयं विद्यमाना सती व्यावर्तयति । तथाच ब्रह्मान्विते स्वविषयत्वेऽनन्वितत्वे सति विद्यमानत्वे च सति व्याव- र्तकत्वात् स्वविषयतां प्रत्युपाधित्वं वृत्तेः । यदनन्वितत्वे सति यद्वि- 3 अविषयत्वात् शुद्धं. 1 धारात्वादस्य. 2 युक्तमितर विषयकस्यापि

  • 9