पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

134 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथमः विषयः तत्तदधिकसत्ताकमित्युक्तव्याप्तेरिति वाच्यम्; स्वाबाधकेत्यनेन यद्वाषकस्य विशेषणीयत्वात् । अन्यथा स्वाप्रयोर्गजतदभावयोः परस्प- रबाधकधीविषयत्वस्य पूर्वोक्तस्यानुपपत्तेः । विवक्षिते तु स्वानगजाभा- ववति स्वामगज इत्याकारकज्ञानस्य स्वामगजतदभावयोः स्वसमानाधि- करणस्वान्यूनसत्ताकात्यन्ताभावप्रतियोगित्वविषयकत्वेनोभयबाघकत्वात् । यद्वाघके स्वाबाधकत्वाभावात् यत्र धीविषयत्वं स्थाप्यं तत्स्वपदार्थः । यत्तु- “ज्ञानाज्ञानयोः शुद्धाविषयकत्वे - ‘आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला' | इति सिद्धान्तहानिः, लब्धे उपहिने विषये अज्ञानस्वरूपसिद्धिः, अज्ञानस्वरूपे च सिद्धे तदुपहितरूपासिद्धिरित्यन्योन्याश्रयः । उपहि- ताश्रंयकत्वमप्यज्ञाने स्यात् । इष्टापत्तौ च तत्राप्यन्योन्याश्रयः, एवमनुपहितस्य वृत्त्यविषयत्वेन चैतन्यस्य वृत्तिविषयत्वार्थं तटस्थ - याऽप्युत्पन्नया वृत्त्योपहितत्वम् । उपहिते सति चैतन्ये तद्विषयक - वृत्त्युत्पत्तिः निर्विषयकवृत्त्यनुत्पादात् । तथाच चैतन्यस्य विषयत्वे तद्विषयकवृत्त्युत्पत्तिः, तस्यां च चैतन्यस्य वृत्त्यधीनं विषयत्वमि- त्यन्योन्याश्रयः " इति, तत्तुच्छम् ; आश्रयत्वेत्यादिवाक्येनाज्ञानका- र्यानुपहितस्याज्ञानविषयताश्रयत्वयोरुक्तत्वात् । 'पूर्वसिद्धतमसो हि पश्चिमो नाश्रयो भवति नापि गोचरः || ' इत्युत्तरार्धेनाज्ञान कार्योपहितस्याविषयाश्रयत्वे पश्चादुत्पन्नत्वहेतोरुक्तत्वात् । अज्ञानोपहितस्याप्यविषयत्वादी तात्पर्ये हेत्वनुक्तया न्यूनतापत्तेः । लब्ध इत्यादिकं तु स्वमौढ्यप्रकटनम् । अज्ञानतदुपहितयोस्तद्गोचरसाक्षिणोश्च अनादित्वेनोत्पत्तिज्ञप्तधोरन्योन्याश्रयानवकाशात् । एवमित्यादिकमपि तथा, शाब्द वृत्तौ विषयस्याहेतुत्वेन विषयस्योपहितस्य वृत्तिपूर्वमन- पेक्षणात् । लक्षणाज्ञानतज्जन्योपस्थिती अपि अन्याविशेषितं यत्स्वो- पहितं तद्विषयके अपेक्ष्येते न तु शाब्द वृत्त्युपहितविषयके । न 1 वृत्त्यविषयत्वार्थः. 2 शाब्दा. 3 अपेक्षेते.