पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

124 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [ प्रथमः 66 ' शुद्धं स्वप्रकाशम्' इति वाक्यस्य लक्षणया अशुद्धत्व- मस्वप्रकाशकत्वव्यापकमित्यर्थः । तथाच अशुद्धत्वव्यावृत्त्या शुद्धे स्वप्रकाशता पर्यवस्यति । यथा भेदनिषेधेनाभिन्नत्वम् । स्येत्यनेन शून्यवादश्शङ्कितः । न च शून्यप्रत्ययस्य संवृतिशब्दित- विकल्पात्मकस्य शशविषाणादिप्रत्ययवन्निर्विषयकत्वेन उक्तसाध्याभाव इति वाच्यम्; तथापि बौद्धमते प्रत्ययमात्रस्य स्वविषयकत्वेन स्वात्म कमिथ्याविषयत्वेनादोषात् । खण्डनेऽप्युक्तं – “सौगतब्रह्मवादिनोरयं विशेषः यदादिमस्य सर्वानिर्वाच्यत्व मन्तिम स्यानात्मन्यनिर्वाच्यत्वम् " इति । अशुद्धत्वम् उपहितत्वं, न तु शुद्धभिन्नत्वं, शुद्धत्वस्य वृत्तिविष यत्वापत्तेः । अशुद्धत्वव्यावृत्त्या शुद्धे पर्यवस्यति । उपहितत्वशून्यब्रह्मान- ष्ठाभावप्रतियोगित्वेन न ज्ञायते । तथाचास्वप्रकाशत्वव्यापकाभावप्रतियो- गित्वरूपायाः स्वप्रकाशत्वव्यतिरेकव्याप्तेः यदोपहितत्वाभावरूपे शुद्धत्वे ज्ञानमुद्बुद्धसंस्कारो वा तदा शुद्धत्वविशिष्टे स्वप्रकाशत्वाभावस्य न ज्ञानम्। वह्नयभावव्यापकाभावप्रतियोगित्वस्य धूमे ज्ञानादि काले धूमवान् वड्यभाववानिति ज्ञानाभाववदिति तादृशज्ञानासम्भव एव स्वप्रका- शत्वसिद्धिरिति भावः । एतेन – 'शुद्धत्वस्य हेतोः ब्रह्मण्यज्ञाने कथं तत्र स्वप्रकाशत्वस्यानुमितिरूपासिद्धिः' इति परास्तम्, शुद्धस्व- रूपज्ञानं विनापि शुद्धत्वस्योक्तप्रतियोगित्वर्धासम्भवात् । उपहितत्वम- स्वप्रकाशत्वव्यापकमिति ज्ञानकालेऽप्युपहितत्वाभावविशिष्टे स्वप्रकाश- त्वाभावो न ज्ञायते । धूमव्यापको वह्निरिति ज्ञानकाले वड्यभाव- वान् धूमवानिति ज्ञानाभाववत् । अतः उपहितत्वाभावरूपशुद्धत्वस्याज्ञा- तत्वेऽपि क्षत्यभावाच । न चोपहितत्वाभावावशिष्टे स्वप्रकाशत्वभावो न ज्ञायत इत्यायुक्त वाक्यजबुद्धौ शुद्धभानमावश्यकमिति वाच्यम्; उपहितत्वाभावावच्छिन्नावशेष्य तानिरूपितस्वप्रकाशत्वाभावप्रकारताशा - लिज्ञानाविषयत्वाद्यभावस्य अस्वप्रकाशत्वेन उक्तबुद्धौ भानादुक्तप्रक- - 1 स्यात्मान्यानिर्वाच्यत्वम्. 2 4 शुद्धस्य. धूमज्ञानादि, धूमवद्वड्य- 3