सामग्री पर जाएँ

पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारच्छेदः] दृश्यत्वनिरुक्तिः 125 न च शुद्धपदेनाभिधया लक्षणया वा शुद्धाप्रकाशे तत्प्रयोगवैय- र्ध्यमिति वाच्यम्; पर्यवासतार्थमादाय सार्थकत्वोपपत्तेः । एवंच 'शुद्धं न दृश्यं न मिथ्या' इत्यस्याप्यशुद्धत्वं, दृश्यत्व- मिथ्यात्वयोर्व्यापकमित्येतत्परत्वेन शुद्धे दृश्यत्वमिथ्यात्वयोः व्यतिरेकः पर्यवस्यति । एतेन – 'स्फुरणमात्रमेव मिथ्यात्वे तन्त्रं लाघवात्, अतः स्वतः स्फुरदपि ब्रह्म मिथ्यैव ' इति शून्यवादिमतमपास्तम् । स्वतः स्फुरणरूपतायाः शुक्तिरूप्या- दावभावात् । स्फुरणविषयत्वस्य ब्रह्मण्यसिद्धेः । ननु विशिष्टज्ञाने विशेष्यस्यापि माने श्रुत्या विशिष्टस्य दृश्यत्वेनैव विशेष्यस्यापि रताया अनुपहितत्वेन भासमानोपहिते स्वप्रकाशत्वज्ञाने प्रसिद्धत्वात् । न चोपहितत्वे स्वप्रकाशत्वाभावव्यापकताज्ञाने शुद्धत्वस्वप्रकाशत्वयोः सहचारज्ञानमवश्यमपेक्षितं, अन्यथोपहितत्वा भाववद्वत्त्य स्वप्रकाशत्वामिति व्यभिचारज्ञानानुच्छेदेन तादृशव्यापकताज्ञानासम्भवात्, तथाचोक्तस- हचारघटकतया शुद्धज्ञानमावश्यकामति वाच्यं ; शुद्धस्य वृत्त्यविषय- त्वेन तद्घटितोक्तव्यभिचारविषयकवृत्त्यसम्भवांत्, उपहितत्वाभावभ्रमकाले उक्तव्यापकत्वज्ञानासम्भवेऽपि तदन्यकाले तत्सम्भवात् उक्तसहचार- भ्रमस्योपहितरूपाधिकरणमादाय सम्भवाच्च । न च शुद्धत्वान्यधर्मविशिष्टे स्वप्रकाशत्वाभावज्ञानापत्तिरिति वाच्यम्; बुद्धत्वसत्यत्वादेरपि तादृश- प्रतियोगित्वज्ञानादिविषयत्वात्, तदभावे इष्टत्वात् । न चैवमपि शुद्ध- त्वोपहिते स्वप्रकाशत्वसिद्धावपि शुद्धे तदसिद्धिरिति वाच्यम्; शुद्ध- त्वस्योपहितत्वाभावत्वेनाभावरूपधर्मे शुद्धवृत्तित्वस्योक्तत्वात् | युज्यते च तत् । उपहितत्वाद्यभावतोपहितेन स्वेन ब्रह्मणो भेदाभेदस्वीकारात् अभेदस्य धर्मधर्मितानियामकत्वात् । पर्यवसितार्थमिति । उक्त- ज्ञानासम्भवरूपं पर्यवसितप्रयोजनमित्यर्थः । एवमिति । वृत्तिविष- यत्वं विनैवार्थसिद्धि सम्भवे इत्यर्थः । स्वतःस्फुरणेति । तथाच साधन- 1 शुद्धसत्त्वादेराप. 2 वृत्ति. ,