पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] दृश्यत्वनिरुक्तिः 123 अन्यथा ब्रह्मपराणां वेदान्तानां वैयर्थ्यप्रसङ्गादिति वाच्यम्; शुद्धं हि ब्रह्म न दृश्यं, 'यत्तदश्यम्' इति श्रुतेः । किन्तूप- हितमेव । तच्च मिथ्यैव । न हि वृत्तिदशायां तदनुपहितं तद्भवति । न च 'सर्वप्रत्ययवेद्येऽस्मिन् ब्रह्मरूपे व्यवस्थिते' इति स्ववचनविरोध इति वाच्यम्; तस्याप्युपहितपरत्वात् । न चैवं सति शुद्धसिद्धिर्न स्यादिति वाच्यम्; स्वत एव तस्य प्रकाशत्वेन सिद्धत्वात् । नन्वज्ञाते धर्मिणि कस्यचिद्धर्मस्य विधातुं निषेद्धुं वा अशक्यत्वेन शुद्धे दृश्यत्वं निषेधता शुद्धस्य ज्ञेयत्वं अवश्यं स्वीकरणीयम् । न च स्वप्रकाशत्वेन स्वतस्सि शुद्धे या दृश्यत्वनिषेध इति वाच्यम्; शुद्धं स्वप्रकाशमिति शब्दजन्यविशिष्टवृत्तौ शुद्ध प्रकाशे तस्य स्वप्र- काशत्वसिद्धेरिति चेन्न; वृत्तिकाले वृत्तिरूपेण धर्मेण शुद्ध- त्वासम्भवात् । शुद्धस्य वृत्तिविषयत्वं न सम्भवति । अतः स मृषा'दृष्टः, स्वप्नादिप्रत्ययो यथेति बौद्धोक्तं युक्तं, तन्मते भ्रम- त्वस्य स्वतस्त्वेनानुकूलतर्कसत्त्वात् प्रमात्वस्वतस्त्वमते तु साक्षिणा प्रथमतः प्रमात्वग्रहात् पश्चादनुमित्या न मिथ्यात्वग्रहः " इति परे - णोक्तं विचारासहं सूचितम् । भ्रमत्वस्य स्वतस्त्वे मानाभावात्, साक्षिणा बाधासम्भवादेरुक्तवात्, व्यवहारकालाबाध्यत्वादिरूपप्रमात्वस्य स्वतस्त्वेपि बाध्यत्वसामान्यानुमितौ बाघकाभावस्य बाघोद्धारे वक्ष्य- माणत्वाच्च । यत्तु " प्रत्ययत्वादित्यस्य विशष्टप्रत्ययत्वादित्यर्थः । तेनाहमित्यालयविज्ञाने शून्यज्ञाने मिथ्याविषयकत्वरूप साध्या सत्त्वेऽपि न व्यभिचारः " इत्युक्तम्, तत्स्वपाण्डित्यप्रकटितम् । शून्यवादिमते युक्तानुमानम् । तत्र च सर्व बाध्य मित्युक्तज्ञानयोर्व्यभिचाराप्रसक्तिः । अतएव मिथ्यात्वमिथ्यात्ववादोपन्यस्त बौद्धाधिकारी यवाक्ये संवृतिसिद्धत्वं शून्यत्वस्य शङ्कितम् । तत्पूर्वमप्यस्तु तर्हि विचारासहत्वमेव विश्व - 2