पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः ] मिथ्यात्वमिथ्यात्वनिरूपणम् मिथ्यात्वमिथ्यात्वोपपत्तिः 109 ननूक्तमिथ्यात्वस्य मिथ्यात्वे प्रपञ्चसत्यत्वापातः । एकस्मिन् धर्मिणि प्रसक्तयो विरुद्धधर्मयोः एकमिथ्यात्वे मित्यस्य तु उक्तार्थे न दोषः । न चैवमुपहितब्रह्मणोपि बाधितत्वा- सुच्छबाषिताविषयकधीत्वरूपस्य विशेषणस्यासिद्धि प्रमाया अप्रसि- द्धिश्चेति वाच्यम् ; उक्तोपहितब्रह्मान्यबाध्याविषयकत्वनिवेशात्, तादृ- शब्रह्मबुद्धावेव प्रमात्वस्वीकाराच्च, निधर्मकब्रह्ममते अन्यथानुपपत्तेः । यत्तु सर्वदेशकालगतात्यन्ताभावप्रतियोगित्वरूपं नृशृङ्गादिसाधारण मत्य- न्तासत्त्वमेव मिथ्यात्वमिति, तन्न; तार्किकमते गगनादौ मिथ्या- त्वव्यवहारापत्तेः । स्वाधिकरणानवेशे च कालान्तस्य व्यर्थत्वादस्मदीय- लक्षणमेव । अत्यन्तासतश्च नाभावप्रतियोगित्वं मानाभावादित्युक्तम् । कदाचिदधिकरणासम्बद्धे च ध्वंसादिप्रतियोगित्वं प्रत्यक्षादिसिद्धम् ॥ एवमन्यत्प्रलपितं दूषितत्वान्न दूष्यते । तस्मात् टीकोक्तमाद्यं द्वे प्रकाशात्मोक्तबाध्यते ? | चित्सुखीयं चतुर्थ स्यादन्त्यमानन्दबोधजम् । नानिर्वाच्येऽप्रसिद्ध्यादिः प्रतीते प्रतिषेध्यता । स्वाश्रयेऽत्यन्तविरहः सद्विलक्षणता तथा । इति पक्षत्रयेऽत्यन्तासत्त्वं नोक्तविशेषणात् || नोक्तधीनाश्यता सिद्धा गृथतां पञ्चता परैः । सारस्वतस्तर्करनैश्चन्द्रिकाचन्द्रतां गतैः ।। दुरन्तध्वान्तखण्डानां खण्डिता दृश्यसत्यता || इति पञ्चममिथ्यात्वनिरुक्तिः