पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

108 अद्वैतसिद्धिव्याख्याया गुरुचन्द्रिकायां [प्रथमः ." , , ध्यत्वं वदता त्वयैव नायं सर्प इति शाब्दबुद्धेः बाघकत्वोक्तेः' । प्रतियोग्यत्यन्ताभावयेोः काल इव देशेऽप्यविरोध इत्यपि नः तथा सति विरोधोच्छेदापत्तेः, अद्वैतधियोप्यबाधकत्वापत्तेः । मिथ्या- त्वानुमानं च तत्र न मानं, विरोधेन तस्यैवानवतारात् । प्रमाणसिद्धत्वं सत्त्वमित्यपि न, तदभावस्य घटादावव्याप्तेः । तदबाध्यत्वव्याप्यमि- त्यपि न; तस्य ब्रह्मण्यभावेऽप्यबाध्यत्वात् प्रपञ्चे तद्भावेऽपि बाध्यत्वात् तस्मिन् अबाध्यत्वं प्रति व्यापकत्वस्येव व्याप्यत्वस्या भावात् " इति तत्तुच्छम् ; मननस्य तर्कत्वेनेच्छादेरिव ज्ञानत्वा- भावात् । भावे वा युक्तचनुसन्धानरूपस्य तस्य निश्चयत्वरूपण ब्रह्माद्वितीयामेत्यादिनिश्चयद्वारा ब्रह्माद्वितीयं न वेत्याकारकसंशयावरह- प्रयोजकतायाः नापि निश्चयत्वेत्यादिना ग्रन्थक्कृतैवोक्तत्वेन त्वदुद्धा- वना नर्हत्वात् । व्यभिचारादिनिश्चयद्वारा साध्यादिज्ञाननिवर्त्यव्याप्तया- दिज्ञानवारणाय ज्ञानमद्वारीकृत्य निवर्तकताया अवश्यवाच्यत्वात् । मननत्वादिना साक्षात्संशयनिवर्तकतायां मानाभावात् स्वप्रयोज्योक्त निश्चयद्वारा तत्सम्भवे' तत्कल्पने गौरवाच्च । उत्तरेत्यादि न युक्तं, स्वोत्तरधर्मादे निवर्तकत्व क्षत्यभावात् । स्मृत्या च संस्कारनाशे हृढसं- स्कारजनने च गौरवमुक्तम् । सुखादिना धर्माद्यनाशे पुनस्सुखाद्या- पत्तिः । संस्कारनाशेऽपि न पुनः स्मृत्यापत्तिः उद्बोधकाभावादित्यु- क्तम् । प्रकारान्तरेणोक्तापत्तिवारणे धर्मादिकमपि सुखादिना न नाश्य- ताम् । परोक्ष शाब्दबुद्धेः प्रत्यक्षं प्रत्यप्रमात्वज्ञापकत्वादिरूपबाध- कत्वोक्तावापे साक्षात्कारत्वेन निवर्तकतायां न हानिः । भावाभाव- योरविरोधेऽपि तद्धीबाधकत्वमुपपादितम् । मिथ्यानुमाने च विरोध- सन्देहो न विरोधी तन्निश्चयत्तु तदा नेत्युक्तम् । उक्तप्रमाणसि- द्धत्वं च न घटादौ, किन्तु प्रमोपहिते ब्रह्माण। अबाध्यत्वव्याप्य- ! प्रतिबन्धकतोक्तः तदा भावस्य. " तत्सम्भवेन. + परीक्षित.