पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां [प्रथम: अपरसत्यत्वनियमात्, मिथ्यत्वसत्यत्वे च तद्वदेव प्रपञ्चसत्य- त्वापत्तेः । उभयथाप्यद्वैतव्याघात इति चेन्न; मिथ्यात्वमि- थ्यात्वेऽपि प्रपञ्चसत्यत्वानुपपत्तेः । तत्र हि विरुद्धयोर्धर्मयोः एकमिथ्यात्वे अपरसत्यत्वम्, यत्र मिथ्यात्वावच्छेदकमुभय- वृत्ति न भवेत् यथा परस्परविरहरूपयो रजतत्वतदभावयोः शुक्तौ यथावा परस्परविरहव्यापकयोः रजतभिन्नत्वरजतत्वयोः तत्रैव । तत्र निषेध्यतावच्छेदकभेदनियमात् । प्रकृते तु निषेध्य- 110 एकमिथ्यात्वे अन्यतरमिथ्यात्वे । अपर सत्यत्वनियमात् अन्य- तरस्याधिकसत्तानियमात् । एवमग्रेऽपि । सत्यत्वमधिक सत्ता । तथाच ययोर्विरुद्धयोरन्यतरस्मिन् मिथ्यात्वं पारमार्थिकं तयोरन्यतरदन्यतरापेक्षया अधिकसत्ताकमिति नियमः, विरुद्धयोः यदेकं मिथ्या तदपेक्षया तदपरमधिकसत्ताकमवश्यमित्युक्तौ तु शुक्तिरूप्ये व्यावहारिक मिथ्या- त्वाश्रये तात्त्विक सत्यत्वाभवाद्व्याभिचारापत्तेः । यत्तु शुक्तिरूप्यं न मिथ्या मिथ्यात्वस्याश्रयः मिथ्यात्वविरुद्धस्य तात्त्विकसत्यत्वस्या- भावात् । यद्यद्विरुद्ध तात्त्विकस्याभाववत् तत्तस्य मिथ्याभूतस्यानाश्रयो यथा गोत्वविरुद्धस्य तात्त्विकस्य गोत्वाभावस्याभाववान् मिथ्या- भूतस्य गोत्वस्यानाश्रयश्च गौः । तथाच रूप्यमिथ्यात्वस्य ताकिक- त्वेन रूप्ये हेतोरेवाभावान व्यभिचार इति तत्प्राय: स्वगुरुं प्रत्येवोक्तम् । अन्यथास्मान् प्रति तात्तिककस्य गोत्वाभावस्थे- त्यस्यासिद्ध्या साधनवैकल्यात् तात्त्विकं ब्रह्मैवेति तत्प्रतियोगि- कात्यन्ताभावाप्रसिद्ध्या हेत्वप्रसिद्धेश्च । वक्ष्यमाणतर्कसनाथं दृश्य- मिथ्यात्वानुमानमपेक्ष्योक्तानुमानस्य तर्करहितत्वेन दुर्बलत्वाच्च । ननु परस्परविरहरूपयोः परस्परविरहव्यापकयोश्चैकस्य मिथ्यात्वे अपरस्या- धिकसत्ता आवश्यकी, अन्यथा समसत्ताकत्वे तयोः सहानवस्थान- 1 सन्यत्वमप्र. 2 तदभिप्रायः. 3 तव्रहितत्वेन.