पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] चतुर्थमिथ्यात्वनिरूपणम् 105 प्रतीयमानत्वस्य विवक्षितत्वात् । न च "तजैक आडुरसदेवे- दमग्र आसीत्" इति श्रुत्या असतः सवप्रतीतेस्तत्राति- व्याप्तिर्दुष्परिहरेति वाच्यम्; 'सदेवेदमत्र आसीत्' इत्यस्य अर्थस्याभाव एव नञा प्रतिपाद्यते । न त्वसतः सत्त्वम्, विरोधात् । अतः नातिव्याप्तिः | सर्व चान्यत् पूर्वोक्तमेवानु- सन्धेयमित्युपरम्यते ।। इति चतुर्थमिथ्यात्वविचार. योगिता ग्राह्या | वृत्त्यनियामकसम्बन्धेनापि मिथ्यात्वलाभायाधिकरण- ताऽपि सम्बन्धितारूपा । एवंच विषयितया स्वसम्बन्धिनि ज्ञाने असतोऽत्यन्ताभावसत्त्वादसत्यतिव्याप्तेः सत्त्वावच्छिन्नत्वादिनिवेशः । एकरूपेण स्वाधिकरणे रूपान्तरेण स्वाभावस्वीकारेपि न तृतये सिद्धसाधनम् । पूर्वोक्तमिति । न चाव्याप्यवृत्तिवारणाय एकावच्छिन्न- त्वस्यानवच्छिन्नत्वस्य वा अभावे निवेशे साध्याप्रसिद्धि:, शुक्तिरजतादा- वेव त्रैकालिकनिषेधेन तत्प्रसिद्धेः । एवंच स्वाधिकरणावृत्तिस्सन् स्वान- धिकरणवृत्तिर्यस्तद्न्यात्यन्ताभावप्रतियोगित्वं साध्यम् । संयोगादौ दृष्टान्ते साध्यप्रसिद्ध्यर्थमवृत्त्यन्तम् । स्वसमानाधिकरणात्यन्ताभावाप्रतियोगि त्वेति पक्षविशेषणात् अवृत्त्यन्ताभावप्रतियोगित्वं पर्यवस्यति । अन्या- प्यवृत्त्यत्यन्ताभावप्रतियोगित्वेन विशेषिते पक्षे स्वसमानाधिकरणात्यन्ता- भावप्रतियोगित्वं वा साध्यं व्याप्यवृत्त्यभावेन पर्यवस्यतीतियत्तत्वविवे कादावुक्तं तत्सम्भवप्राचुर्येण; अवृत्त्यधिष्ठानात्मकामावपर्यवसानस्यास्म- त्साध्येऽपि लाघवेन सम्भवात् अवृत्तेरप्यत्यन्ताभावत्वेन रूपेण स्वस्मिन् तादात्म्याभ्युपगमेन व्यापकत्वसम्भवात् संयोगादौ पक्षे , अस्मदीयरीतेरावश्यकत्वाञ्चेति ध्येयम् । असद्वारणंत्वभ्युपेत्य वाद , १ .