पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां पञ्चममिथ्यात्वनिरूपणम्. सद्विविक्तत्वं वा मिथ्यात्वम् | सत्वं च प्रमाणसिद्धत्वम् । प्रमाणत्वं च दोषासहकृतज्ञानकरणत्वम् । तेन स्वप्रादिवत् प्रमाणसिद्धभिन्नत्वेन मिथ्यात्वं सिद्धयति । प्रमाणसिद्धत्वं च अबाध्यत्वव्याप्यमित्यन्यत् । अत्राप्यसति निर्धर्मके ब्रह्माण उक्तरीत्या तदत्यन्ताभावे मानाभावात् । सत्त्वाननुगमे तु सत्त्वस- मानाधिकरणं यत् स्वावच्छेदक तदवच्छिन्नञ्यापकत्वं स्वनिरूपकत्वं चेत्युभयसम्बन्धेन प्रतियोगिमत्त्व' मत्यन्ताभावत्वावच्छेदेन साध्यम्। व्याप- कत्वं समानाधिकरणभेदीयायाः प्रतियोगितायाः अनवच्छिन्नावच्छे- दकताशून्यत्वम् । सिद्धान्ते सर्वेषां अभावस्वरूपाणां केवलान्वयि त्वेन नोक्तावच्छेदकत्वं सामानाधिकरण्यं वा व्यापकत्वस्थले वाच्यम् | व्यापकत्वादि, निरवच्छिन्नविशेषणतया बोध्यम् । तेनाव्याप्यवृत्तौ न सिद्धसाध्यता । विस्तरस्तु विशेषानुमानेषु भविष्यति ॥ इति चतुर्थमिथ्यात्वनिरूपणम् 106 [प्रथमः दोषेति । प्रमाणसिद्धत्वं प्रमाविषयत्वम् । प्रमाणत्वं तु बाधिताविषय कधीत्वमखण्डधर्मो वा । तेन दोषाणामनुगतत्वसर्वसम्मतत्वा- द्यभावेऽपि न क्षतिः ●। घटादिज्ञानं न प्रमा तद्विषये अबाधितत्वाग्र- हात्, किन्तु तत्त्वेनाभिमन्यत इत्याह - प्रमाणसिद्धत्व चेति । प्रमा चेत्यर्थः । अबाध्यत्वव्याप्यमिति । नास्ति बाध्यत्वं यत्र तदबाध्यत्वं शुद्धं ब्रह्म तदभिन्नं प्रमोपहितं ब्रह्म व्याप्यं विषयो यस्य तत्तथा । तेनाबाध्यस्य शुद्धस्याविषयत्वेऽपि न क्षतिः । निर्धर्मक इति । भावरूपधर्मशून्यत्वेऽपि अभावरूपधर्मवैशिष्ट्यस्यो- 1 स्वत्वाननुगमे. 2 प्रतियोगित्व. 3 सिद्धसाधनता.