सामग्री पर जाएँ

पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

104 अद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां चतुर्थमिथ्यात्वनिरूपणम्. स्वाश्रयनिष्ठात्यन्ताभावप्रतियोगित्वं वा मिथ्यात्वम् । तच्च स्वात्यन्ताभावाधिकरण एव प्रतीयमानत्वम् । अतः पूर्व- वढैलक्षण्यम् । दूषणपरिहारः पूर्ववत् । न च संयोगिनि समवायिनि वा देशे तदत्यन्ताभावासंम्भवः, सम्भवे तु उपादा- नत्वाद्यनुपपत्तिरिति वाच्यम्; काले सहसम्भववदेशेऽपि सहस- म्भवाविरोधात् प्रागभावसत्त्वेनोपादानत्वाविरोधाच्च । न चात्यन्ताभावाधिकरणे प्रागभावस्याप्यनुपपत्तिरिति वाच्यम्; काले व्यभिचारात् । न च काले प्रागभावात्यन्ताभावयोस्सामा- नाधिकरण्यमिदानीं घटात्यन्ताभाव इदानीं घटप्रागभाव इति प्रतीतिबलादङ्गीकृतं, देशे तु तदुभयसामानाधिकरण्ये न कि- श्चिदपि प्रमाणमिति वाच्यम्; मिथ्यात्वानुमितेः श्रुतेश्च प्रमाणत्वात् । विषमसत्ताकभावाभावयोरविरोधः पूर्वमुपपादितः । न चासत्यतिव्याप्तिः. स्वात्यन्ताभावाधिकरण एव सवेन [ प्रथमः सत्त्वेनेति । अबाध्यत्वोपलक्षिततादात्म्येनेत्यर्थः । तच्च स्वस्मिन्नपि स्वरूपसम्बन्धेनास्त्येव, तत् तत्वान्यतरवत्त्वेनेति वा अर्थः । तेन तादात्म्ये नाव्याप्तिः सत्त्वावच्छिन्ना या स्वप्रकारता तन्निरूपितविशे- ष्यताव्यापकस्वात्यन्ताभावकत्वं सत्त्वावच्छिन्न स्वाधिकरणताव्यापकस्वात्य- न्ताभावकत्वं सत्त्वसमानाधिकरणस्वावच्छिन्नाधिकरणताव्यापकतावच्छे- दकं यद्धर्मावच्छिन्नप्रतियोगिता कात्यन्ताभावत्वं तद्धर्भवत्त्वं वा लक्षणम् । व्यापकत्वस्थले सामानाधिकरण्यं निवेश्यान्त्यद्वयं वा वाच्यम् । तेन स्वात्यन्ताभावानधिकरणाप्रसिद्धावपि नैवकारार्थासङ्गतिः । आद्ययोः स्वपदं लक्ष्यपरं, अन्त्ये तु यद्धर्मपरम् | असतः सत्त्वेन धीस्वीकारेऽपि द्वितीय तृतीययोः नासत्यतिव्याप्तिः । येन सम्बन्धेनाधिकरणता तेन प्रति-