पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्तात्रैविध्योपपत्तिः अविद्यातत्कार्यात्मकनिबिडबन्धव्यपगमे यमद्वैतं सत्यं प्रततपरमानन्दममृतम् । भजन्ते भूमानं भवभयभिदं भव्यमतयो नमस्तस्मै नित्यं निखिलनिगमेशाय हरये ॥ परिच्छेद.] 193 ,

तदवच्छिन्ना प्रयोजकता प्रथमलक्षणे निवेश्या; तेन दोषप्रत्यक्षादौ व्यावहारिके नातिव्याप्तिः । उक्त प्रयोजकतानिरूपितप्रयोज्यतापि शक्ति- रूप्याद्यन्यतमत्वेन शक्तिविशेषेण वा बोध्या। अविद्यारूपदोषप्रयुक्तत्वं यद्यपि प्रातीति केऽप्यस्ति; तथापि मूलाविद्याप्रयुक्तत्वं वाच्यम्; अनादि- दृश्येऽपि तदव्याहतम् । यद्यप्यविद्यान्यदोषकार्यत्वं भ्रमतद्विषयसाधारण- रूपेण तत्र कार्यतावच्छेदकसंबन्धो दोषाश्रयतत्तद्धर्मिनिष्ठा न स्वाश्रया- विद्याश्रयतावच्छेदकत्वरूप उभयीयः परोक्षभ्रमस्थले तदसंभवात् । रजतज्ञानस्येदम रजतस्येदमाकारवृत्तौ चोत्पत्त्यापत्तेरुभयोरुक्त/वच्छेद- कत्वाविशेषात् । न च स्वाश्रयाविद्याविषयतावच्छेदकत्वसंबन्ध एव तादृश इति -बाच्यम्; शुक्तित्व दिविशिष्टभ्यैवोक्तावच्छेदकत्वेनेदमर्थ- तज्ज्ञानयोः रजतज्ञानयोरुत्पत्त्यसंभवात् । तथापि दोषसंस्कारविशेषाणां स्वविशिष्टरजतत्वाद्यवच्छिन्नस्य तादात्म्यादिसंबन्धेनोत्पत्तावविद्याया इद- माकारज्ञाननिष्ठप्रत्यासत्त्या रजतादिज्ञानोत्पत्तौ च विशेषतो हेतुत्वावश्य- कत्वात् । तत एव रजतादेरिदंत्वादिविशिष्ट निष्ठत्व संभवादुक्तावषयतावच्छे- दकत्वसंबन्धेन रजतादितद्धीसाधारणरूपेण सामान्यतो दोषकार्यत्वेऽपि न दोषः । यद्यपि ब्रह्मज्ञानजन्यनाशतज्जन्यनाशयोरन्यतरप्रतियोगित्वं ब्रह्मज्ञानबाध्यत्वम्, तच्च न प्रातीतिकेऽस्ति; तन्नाशहेतुपल्लवाविद्या- नाशस्यैव ब्रह्मज्ञानजन्यनाशजन्यत्वात् पल्लवाविद्यापि मूलाविद्येव व्यावहारिक्येवेति न तत्राप्यतिव्याप्तिः । तथापि पल्लवाविद्यानङ्गीकारपक्षे प्रातीतिकविशेषेऽतिव्याप्तिर्बोध्या । अत्र पल्लवाविद्यापक्षे मूलपल्लवाविद्या- A VOL [II. 13