पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

192 सव्याख्यायामद्वैतसिद्धौ [प्रथमः उपाधिबाघप्रतिपक्षशून्यं विपक्षबाधागमसव्यपेक्षम् । दृश्यत्वमव्याहतमम्बरादिमिथ्यात्वसिद्धौ सुदृढं हि मानम् || तदेवं दृश्यस्य प्रपञ्चस्य मिथ्यात्वात्तदतिरिक्तब्रह्मरूपा- खण्डार्थनिष्ठवेदान्तवाक्यं परतत्त्वावेदकम् । सखण्डार्थविषयकं सर्वमतत्त्वावेदकमेवेति । यद्यपीदं ब्रह्मज्ञानाव्यवहितभ्रमविषये प्रातिभासिके व्यावहारिकलक्षणमतिव्याप्तम्, प्रातिभासिकलक्षणं चाव्यासम्; तथापि करणसंसार्गदोषप्रयुक्तत्वं तदसंसर्गिदोष- प्रयुक्तत्वं च तयोर्लक्षणं निरवद्यम् || इति सत्त्व त्रैविध्योपपत्तिः ॥ उपाधीत्यादि । प्रतिपक्षः सत्प्रतिपक्षः, विपक्षबाधकस्तर्कः, सापेक्षं सहितं, दृश्यत्वं दृश्यत्वादिहेतुः, दृढं हि दृढमेव । करणसंसर्गि- दोषप्रयुक्तत्वम् करणनिष्ठ संसर्गितया करणसन्निकृष्ट निष्ठप्रत्यासत्या या दोषनिष्ठा प्रयोजकता तन्निरूपितप्रयोज्यतावत्वम् | काचादिदोषाणां हि चक्षुरादिसन्त्रिकृष्टधार्मिंगतप्रत्यासत्त्या प्रातीतिकाध्यासहेतुत्वम् । परो- क्षभ्रमस्थलेऽपि व्याप्तिज्ञानादिकरणसंसृष्टपक्षादिनिष्ठप्रत्यासत्त्यैव दोषा- ध्यासयोः कारणकार्यभाव ऊहनीयः ॥ अविद्यायास्तु व्यावहारिक विषयकं स्ववृत्तिभ्रमं प्रति तादात्म्ये. नैव हेतुत्वम् । अतः करणसन्निकृष्टानेष्ठप्रत्यासत्त्यवच्छिन्न प्रयोजकता. निरूपितप्रयोज्यत्वं करणसंसर्गीत्यादेरर्थः । तदनवच्छिन्न प्रयोजकतानिरू- पितप्रयोज्यत्वं तदसंसर्गीत्यादरेर्थः । अविद्यान्यदोषप्रयुक्तत्वमविद्यारूप- दोषप्रयुक्तत्वं च द्वयोः पर्यवसितार्थः । तेन करणसन्निकर्षादेरननुगत त्वेऽपि न क्षतिः । दोषत्वं च तावद्दोषाणामन्यतमत्वं जातिविशेषो वा,