पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सत्तात्रैविध्योपपत्तिः परिच्छेदः] भेदकाभावे इतरत्वस्यैवायोगात्, अन्योन्याश्रयाच्चेति–चेन्न; सप्रकारकनिष्प्रकारकज्ञानबाध्यत्वाभ्यां शुद्धब्रह्मधीबाध्यत्वतद- न्यधीबाध्यत्वाभ्यां वा महावाक्यजन्यधीबाध्यत्वतदन्यधीबाध्य- त्वाभ्यां वा भेदसंभवात् । शुद्धशब्देन निर्धर्मकाधिष्ठानमात्र- मेवाऽत्र विवक्षितम् । न च – निर्धर्मकं यद्वस्तुगत्या तज्ज्ञानं भ्रमकालेऽपि, निर्धर्मकत्वविशिष्टस्य तदुपलक्षितस्य वा ज्ञानं चेद्विवक्षितम्, तदा अखण्डार्थताहानिः प्रकारीभृतनिर्धर्मकत्व- द्वितीयाभावादेस्तात्त्विकत्वापत्तिश्चेति वाच्यम्; निर्धर्मकं यद्व- स्तुगत्या तन्मात्रगोचरज्ञानस्य विवक्षितत्वात् तस्य च भ्रम- कालेऽभावात् । निर्धर्मकत्वादेस्तदुद्धावुपायत्वमात्रम् ; न तु तद्बुद्धौ विषयत्वम् । अतो नाखण्डार्थताहानिप्रकारतात्विकत्वा- पत्ती । निष्प्रकारकत्वेऽपि संशयादिनिवर्तकत्वमुपपादितमेव । तस्मादज्ञानोपादानकं जगन्मिथ्येति सिद्धम् ।। " 191 विशेष इत्यनुषज्यते । भेदकाभावे अनुगतानतिप्रसक्तस्य भेदप्रति योगितावच्छेदकस्याज्ञाने | इतरत्वस्य भेदज्ञानस्य । ननु -- प्रातीति- कान्यत्त्वरूपव्यावहारिकत्वेन भेदः प्रातीतिकत्वम् तत्राह | अन्योन्या- श्रयाच्चेति । प्रातीतिकत्वज्ञानाद्वयावहारिकत्वज्ञानम् तज्ज्ञानाच प्रातीति कत्वज्ञानमित्यन्योन्याश्रयाच्चेत्यर्थः । सोऽयमित्यादिवाक्यजन्य- निष्प्रकारकधीबाध्यभेदस्य व्यावहारिकत्वापत्तेराह – शुद्धेति । शुद्धस्य विषयत्वानङ्गीकारेऽप्याह –– महावाक्येति । वाक्यस्य न बाघकसाक्षा- त्कारहेतुत्वम् ; किंतु भावनासहकृतमनस इति भामतीमतेऽप्याह- स्वबाधकेति । तदुद्धौ चरमतहुद्धौ उपपादितमिति । उप- लक्षणविधया व्यावृत्ताकारत्वादि नेत्यादिः । तस्मादित्यर्थं स्पष्टयति- -