पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

182 सव्याख्यायामद्वैतसिद्धी [प्रथमः प्रत्ययः । तेन सहाभेदग्रहात्परोक्ष भ्रमेऽपि जानामीति प्रत्ययः । न च विवरणेऽन्तःकरणपरिणामे ज्ञानत्वोपचारादिदंवृत्तेरपि ज्ञान- त्वोक्तौ विवरणविरोधः तस्य प्रकाशत्वनिबन्धनज्ञानपदप्रयोग- विषयत्वमित्येतत्परत्वात्, न त्वज्ञाननिवर्तकत्वनिबन्धनज्ञान- पदप्रयोगोऽप्यौपचारिक इति तस्यार्थः । तथाचाविद्यावृत्तौ यत्र ज्ञानपदप्रयोगस्तत्रौपचारिक एव । न च – अविद्यावृत्तरज्ञानत्वेन ज्ञानस्यौत्सर्गिकं प्रामाण्यमिति विरुध्येत, निरपवादनियमस्यैव संभवादिति वाच्यम्; इच्छाजनकवृत्तिमात्रस्य ज्ञानत्वमभि- प्रेत्योत्सर्गत्वोक्तेः । यद्वा – वृत्तिभेदेऽपीदंरूप्ययोरिदमंशाव- च्छिन्नचैतन्यप्रकाश्यत्वेन फलैक्याज्ज्ञानैक्यधीः । न च-परोक्ष- भ्रमेऽपरोक्षैकरसचैतन्यरूपफलैक्याभावात्कथं तन्निबन्धनज्ञानै- - - न क्षतिः । तेन सह - तादृशज्ञानेन सह । भ्रमेऽपीत्यपिशब्दादपरोक्ष- भ्रमेऽप्यधिष्ठानसामान्यज्ञानाभेदग्रहाज्जानामीति धरिति सूचिम् । इत्थं च भ्रमे ज्ञानत्वानङ्गीकारो विचारदशायामपि ज्ञानैक्यबुद्धयुपपादनायेति बोध्यम् । प्रकाशत्वेति । असत्त्वापादकाज्ञानशून्यचिद्रूपत्वेत्यर्थः । प्रयोगविषयत्वमिति । औपचारिकमिति शेषः । अज्ञानत्वेन ज्ञानान्यत्वेन । इच्छाजनकेति । सुखादावपि वृत्तिमङ्गीकृत्येदमुक्तम् । तत्र तदनङ्गीकारे त्वसत्त्वापादकाज्ञानविषयतावच्छेदकत्वस्यैवेच्छाविष- यताप्रयोजकत्वान्नाविद्यावृत्तोरच्छाप्रयोजकत्वम् । परंतु ज्ञानस्यौत्सर्गिक- मित्यादौ ज्ञानपदमुक्तानवच्छेदकत्वाश्रयविषयक चित्परमिति ध्येयम् । फलैक्यादिति । आवरण नाश रूपफलविशिष्टत्वेनेद मंशावच्छिन्नचिदेव फलं न तु रूप्यावच्छिन्ना । तथाचोक्तफलस्यैक्यात्तद वच्छिन्न योर्वृत्ति- ज्ञानयो रैक्यव्यवहार इति भावः ॥ 1 विषयकं -क. ग.