पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] भ्रमस्य वृत्तिद्वयोपपत्तिः 183 - क्यानुभव इति – वाच्यम्; तत्र फलैक्यमप्युपचर्य ज्ञानैक्योप- चार इत्येव विशेषात् । ननु त्वन्मते यथाक्रममिदंरूप्या- कारान्तःकरणवृत्त्यविद्यावृत्तिप्रतिबिम्बिताभ्यां वा, तदभिव्य- क्ताभ्यां वा इदमंशावच्छिन्नतदनवच्छिन्नाभ्यामिद मंशरूप्या- धिष्ठानचैतन्याभ्यां वा, वेद्यत्वेनावच्छिन्नफलस्य भेदात्कथं फलै- क्यम् ? अनवच्छिन्नफलीभूतचिन्मात्राभेदस्य सर्वत्र समानत्वात् । न हीदमंशेऽपि तदवच्छिन्नमेव चैतन्यमुपादानम् ; आत्माश्रयात् । न वा रूप्ये इदमंशानवच्छिन्नमुपादानम् इदं रुप्यमिति प्रती त्यनुपपत्तेरिति – चेन्न; अविद्यावृत्तिस्तावन्नाज्ञाननाशिका, किं- त्वन्तःकरणवृत्तिरिदमाकारा । तथाच तदभिव्यक्तचैतन्यमेव रूप्यमभिव्यनक्तीति फलैक्यसंभवात् । न ह्यवच्छेदकभेदेन फलभेदः, किंतु व्यञ्जकभेदेन । तथाच परमार्थ सञ्चैतन्यमधि- ष्ठानमध्यस्तज्ञानस्य | तच्च द्विविधं व्यावहारिकसत्प्रातिभासिक- - तदभिव्यक्ताभ्यां वृत्तिकृतावरणनाशविशिष्टाभ्याम् । वृत्तेश्चि- दुपरागार्थत्वे प्रथमः पक्षः। आवरणनाशार्थत्वे तु द्वितीयः पक्षः । अथ– मनोऽवंच्छिन्नचितो जीवत्वपक्षे विषयचैतन्यमनावृतमेव ; जीवस्य विषयचैतन्येनाभेदानभिव्यक्तयैव वृत्त्यभावकाले विषयाद्रष्टृत्वात्, तत्पक्ष- माश्रित्याह –– इदमंशेति । चैतन्याभ्यामिति । इदमंशरूप्याकार- वृत्तिकृतप्रमात्रभेदापन्नाभ्यामिति शेषः । दूष्यग्रन्थे यद्यपि मध्यमो वाकारो नास्ति, तथापि पक्षत्रयसंभवात्स उक्तः | अभिव्यनक्तीति । इदमंशेऽज्ञानास्वीकारपक्षेऽपीदमा कारवृत्तेर्द्रव्यत्वाद्याकारकत्वसंभवेन द्रव्य- त्वादिविशिष्टांशेऽज्ञाननाशकत्वं बोध्यम् । व्यञ्जकभेदेन अज्ञान- नाशकवृत्तिभेदेन । मनोवृत्तिभेदे तत्कृतस्याज्ञाननाशस्यापि भेदात्तद्वि- शिष्ट चिद्रूपफलभेद इति भावः । तच्च अध्यस्त च ॥