पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] भ्रमस्य वृत्तिद्वयोपपत्तिः 181 - सभिकर्षस्यापि सामान्यसामग्रीत्वात् । न हि दृष्टा छिदा दारु- वियुक्तकुठारेणेत्यन्यत्र विस्तरः । यत्तु – युक्तिरेव विवर्ताधिष्ठान- मस्तु, न चैतन्यमिति – तन्न; अधिष्ठानस्य भ्रमजनकाज्ञान- विषयत्वेन तदकल्पिततया सत्यत्वनियमात्, शुक्तेश्च मिथ्या- त्वात् । यद्वा –अविद्यावृत्तेर्न ज्ञानत्वम्, अतो ज्ञानैक्यधी:; ज्ञानत्वस्याज्ञाननिवर्तकमात्रवृत्तित्वात् । न चैवं धारावाहनस्थले द्वितीयादिज्ञाने ज्ञानत्वं न स्यादिति – वाच्यम्; तस्यापि तत्तत्कालविशिष्टग्राहकत्वेनागृहीतग्राहकतयाऽज्ञाननिवर्तकत्वात् । वस्तुतस्तु – यावन्ति ज्ञानानि तावन्त्यज्ञानानीति व्यवहित- ज्ञानेनेवाव्यवहितज्ञानेनाप्यज्ञाननिवर्तनादिति न काप्यनुपपत्तिः । परोक्षस्थलेऽपि प्रमातृगताज्ञाननिवृत्तिरस्त्येवेति तत्र जानामीति - सामान्यसामाग्रीत्वात् ज्ञानसामान्यसामग्रीत्वात् । तदकल्पित- तया अज्ञानाप्रयुक्ततया । नियमादिति । वस्तुतः शुक्त्यादे. स्तूलाज्ञानविषयत्वेऽपि न परोक्तदूषणावकाशः । अनादौ परमते विषयत्वस्येव मन्मते विषयित्वस्यापि कादाचित्कस्य संभवादिति ध्येयम् । मिथ्यात्वादिति । शुक्तचवच्छिन्नचिद्रूपं तु यद्यपि मिथ्या, तथापि नाज्ञानविषयः ; चिन्मात्र निष्ठायामज्ञानविषयतायां शुक्तयादेरुपाधित्वात् । न च–व्यावर्त्यविषयताकालाव्यापकत्वमुपाघित्वे विघटकमिति – वाच्यम्, व्यावृत्तिधीकालव्यापकत्वस्यैवोपाघित्वे तम्रत्वात् । न काप्यनुपपत्ति- रिति । वस्तुतोऽज्ञाननिवृत्तिस्वरूपयोग्यत्वं प्रमात्व पर्यवसितम् । अत एवेदमा कारवृत्तेरज्ञानानिवर्तकत्वेऽपि न क्षतिरिति ध्येयम् । परोक्षस्थले परोक्षभ्रम कारणादधिष्ठान सामान्यज्ञानात् । निवृत्तिः नाशं प्रति स्वरूपयोग्यता | तेनेदमाकारवृत्तेरज्ञाननिवृत्त्यनुपधायकत्वेऽपि - । 1 योग्यत्वं ज्ञानत्वं प्रमात्व - क. ग.