पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

180 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः ज्ञानस्यैवोभयपरिणामित्वात् इदमंशस्तदाकारवृत्तिश्चैतद्वयमा श्रयमात्रावच्छेदकमित्युक्तत्वात् । न चैवमप्यबाधितज्ञानैक्या- नुभवावरोधः ; अध्यस्तेन सहेन्द्रियासंप्रयोगस्यैव बाधकत्वात् । न च सन्निकर्षः प्रमासामग्री; करणानां प्राप्यकारित्वनियमेन 1 वृत्त्यापत्तिरिति भावः । वस्तुत उपादानीभूतोक्ताज्ञानानुच्छेदेन रजतज्ञान- स्यानुच्छेदेऽप्युत्तरज्ञानेन निवृत्तिसंभवादनिवृत्तावपि सुखादेनशे तद्भास- कचित्सत्त्वे सुखं साक्षात्करोमीत्यस्येव रूप्यनाशे तज्ज्ञानसत्त्वेऽपि रूप्यं साक्षात्करोमीत्यस्य व्यवहारस्यासंमवान्नानुपपत्तिः; परं तु एकस्यैवाज्ञानस्य रूप्यतज्ज्ञानोपादानत्वे लाघवात्तदेव युक्तमिति ध्येयम् । आश्रय- मात्रावच्छेदकमिति । इदं रूप्यमिदं रूप्यज्ञानमिति द्व्याकारानु- भवादज्ञानमूलकभ्रम विशेष्यतावच्छेदक रूपावच्छिन्नस्यैवा ज्ञानाधारावच्छे- देकरूपत्वादेकस्याज्ञानस्य द्वयमाश्रयतावच्छेदकम् । यदवच्छिन्नां हि चितमज्ञानमाश्रयति तदवच्छिन्नां तो तत्परिमाणोऽपि तदाश्रयताव- च्छेदकमेव तदंशे विशेष्यतावच्छेदकम् । अथैवं - - इदं ज्ञानं रूप्यमित्यपि भ्रमाकार: स्यादिति – चेन्न; इदं ज्ञानं न रूप्य- मिति बाघसत्त्वात्समानविषयकसंस्काररूपस्य हेतोरभावात् इदमादि- निष्ठप्रत्यासत्त्या दोषविशेषाणां रूप्यादिहेतुत्वादिदमादावेव रूप्या- युत्पत्त्या इदं ज्ञाने तदापत्त्यसंभवात् । तादात्म्यसंबन्धेनाविद्यापरि- णामरूपं ज्ञानं प्रत्यविद्याविषयविषयकज्ञानत्वेन तादात्म्येन हेतु- त्वादुक्त ज्ञानरूपे इदं ज्ञान एव तादात्म्येन रूप्यादिज्ञानोत्पादः । असंप्रयोगस्य असंयोगप्रतिसंधानस्य । अध्यस्तम्, इन्द्रियजन्य- ज्ञानाविषयः, इन्द्रियासन्निकृष्टत्वादित्याद्यनुमानं बाघकमिति भावः । 1 इदं रूप्यमिदं ज्ञानं क ग. —— ,