पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] श्रमस्य वृत्तिद्वयोपपत्तिः 179 - काले विषयैक्यग्रहनियमवन ज्ञानैक्यग्रहनियमः; तं विनापि प्रवृत्त्याद्युपपत्तेः, तथाच बाधकाले न तदनैक्यग्रह नियमोऽ- पीति आहुः । न च – इदंवृत्ते इतकसत्वेन तदवच्छिन्न- चैतन्यगताज्ञानमेव नास्तीति – वाच्यम् ; वृत्ते: साक्षि- वेद्यत्वेन यद्यपि तद्गोचराज्ञानं नास्ति; तथापि तदवच्छिन्न- चैतन्ये शुक्त्यवच्छिन्नगोचराज्ञानसत्त्वात् । तथाचेदंवृत्ति- राश्रयावच्छेदिका न तु विषयावच्छेदिकेति वस्तुस्थितिः । अत एव शुक्तितत्वं जानत इदंवृत्तितत्त्वं चाजानतो रूप्यनि- वृत्तावपि तदज्ञानानुवृत्तिप्रसङ्ग इति -- निरस्तम् ; शुक्तितत्वा- करणताया रूप्यादावनङ्गीकारात्, अन्यथा सौरभादावपि व्यभिचारापत्तेः । अत एव मणिकृताप्युक्तम्- ..... प्राभाकरस्तु मितिमात्रांशे सर्वं ज्ञानं साक्षात्कार' इति । न ज्ञानैक्यग्रहनियम इति । यथा निदाघदून- देहस्य गङ्गाह्रदसर्वाङ्गीण मज्जने तत्तदवयवावच्छिन्नसुखानां समानजा. तीयानां समकालीनानां न भेदग्रहः, तथा प्रकृतेऽपीति भावः । नियमोऽपीति । अर्थतत्त्वव्यवस्थापकोडाप बाधो भ्रमज्ञाने ययोरै- क्यमारोपितं भाति, तयोर्भेदमवगाहते । ज्ञानयोरैक्यस्य भ्रमाविषयत्वे तु तयोर्भेदं नावगाहते । वस्तुतोऽर्थतत्त्वव्यवस्थापकत्वं भ्रममूलाज्ञान- विषयविषयकत्वं न तु यावदुक्तविषयविषयकत्वम् ; आंशिकबाघे तद- भावात् । न वा भ्रमे ययोरैक्यारोपस्तयोर्भेदाविषयकत्वम् ; तत एव । तथाच भ्रमस्य ज्ञानयोरैक्य विषयकत्वेऽपि न क्षतिरिति ध्येयम् || नन्विदं वृत्तर्ज्ञातैकसत्त्वेऽपि तस्यां रजताकारवृत्तिभेदस्याज्ञात- त्वात्तदज्ञानमेव रजतज्ञानोपादानमित्येव कुतो न सिद्धान्त्यते ? तत्राह- अत एवेति । इदं वृत्तितत्वं इदंवृत्तौ रूप्यवृत्तेर्भेदम् । तदज्ञानानुवृ त्तीति। उक्तभेदाज्ञानानुवृत्तीत्यर्थः । तदनुवृत्तौ च रूप्यज्ञानस्याप्यनु - 12* ·