पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

166 सव्याख्यायामद्वैतसिद्धी [ प्रथमः - इति न तत्प्रतियोगित्वेऽनुभव विरोधोऽपि । ननु – यद्यपि प्र सक्तिर्ज्ञानम्, सा च स्मृतिरूपा पारमार्थिकत्वस्यास्त्येव, तथापि निषेध्यताप्रयोजकपारमार्थिकत्वाकारेण प्रातिभासिकस्य प्रसक्तिर्नास्तीति – चेन्न ; व्यधिकरणधर्मावच्छिन्न प्रतियोगिको ह्ययमभावः, तत्प्रतीतौ च न विशिष्टप्रसक्तिरुद्देश्या; प्रत्येक - प्रसक्तथैव तत्प्रतीत्युपपत्तेः । निर्विकल्पकादभावप्रतीतिरिष्टां- पत्त्यैव परिहरणीया । यद्वा लौकिकपरमार्थरजतस्यैव तत्र त्रैकालिकनिषेधः । न च तर्हि 'नेह नाने' ति निषेधायापि तात्त्विकप्रपञ्चान्तरोररीकारापत्तिः ; नेह नानेति निषेधस्थले किंचनेति पदसन्दंशात् प्रतीयमान सर्वनिषेधस्यावश्यकतया नि- षेध्यत्वेन प्रपञ्चान्तरकल्पनाया गौरवकरत्वात्, प्रकृते तु सर्वत्वेन प्रतियोग्यनुल्लेखादापणस्थरूप्यनिषेधस्य इदम्यावश्यक- - न विशिष्टप्रसक्तिरिति । यद्रूपविशिष्टस्य प्रतियोगित्वर्षास्तद्रूपविशिष्टस्य प्रसक्तिरपेक्ष्यते, व्यधिकरणरूपविशिष्टस्य तु न प्रतियोगित्वधीरिति न तस्य प्रसक्तयपेक्षेति भावः ॥ -- उक्ता- - नन्वेवं - - प्रतियोगिनि पारमार्थिकत्ववैशिष्ट्याभाने उक्ताभाव- बुद्धेर्विशिष्टवैशिष्ट्यधीत्वाभावात्पारमार्थिकत्वानिर्विकल्पोत्तरमप्युक्त भाव- धी: स्यात्तत्राह – निर्विकल्पकादिति । अभावप्रतीतिः । भावधीः । इष्टापत्त्येति । विशेषणतावच्छेदकप्रकारकज्ञानस्य हेतुत्वे मानाभावात्समानधिकरणरूपावच्छिन्नाभावधीरपि निर्विकल्पकोत्तरं स्वी- क्रियते । तद्धेतुत्वस्य प्रामाणिकत्वे तु सैव तथा न स्वीक्रियते । उक्ता- भावधियस्तथाऽस्वीकारे तु न किंचिन्मानमिति भावः । प्रतीयमान- निषेधस्येति । निषेधाधिकरणे प्रतीयमानं यत्तन्निषेधस्येत्यर्थः । -