परिच्छेदः] आविद्यकरजतोत्पत्त्युपपत्तिः अत्यन्ताभावः कथम् ? प्रतीतिमुपलभस्व | यया अपरोक्षप्रतीत्या- द्यन्यथानुपपच्या सिद्धोत्पादादिकस्य त्रैकालिकनिषेधप्रतियो- योगित्वं विषयीक्रियते । यद्वा न स्वरूपेण त्रैकालिकनिषेधप्रति- योगित्वम्, किं तु पारमार्थिकत्वाकारेण । न च पारमार्थिकत्व- स्यापि प्रतिभाससमये प्रतीतत्वेन न त्रैकालिकनिषेधप्रतियोगित्वं संभवति, रजतप्रतियोगित्वेनानुभवविरोधश्चेति वाच्यम् ; प्र- तीतिकालप्रतीतं पारमार्थिकत्वमपि प्रातीतिकमेवेति न तम्भि- षिध्यते, किंत्वन्यत्र वृत्त्येवेति तेनाकारेण रजतस्यैव निषेध - 165 सदुपरागेणासद्भानम्याप्यसंभवेन भ्रमविषयम्य प्रत्यक्षत्वायोग्यत्वादेराव - श्यकत्वेऽपि तद्गाहकसामग्रयनवतारादेव तद्ग्रहात् । एवं चोक्तानव- तारकालीनाया अत्यन्ताभात्रबुद्धेर्नाशादिबुद्ध्यनुत्पत्तिव्याप्यत्वेन नाशा- दिबुद्धिप्रतिबन्धकत्वमुक्तम्, न तु दाहादौ मण्यांदरिव वास्तवं प्रति- बन्धकत्वम् । अत एव न हि कुत्रापीत्याद्यपि तदभिप्रायकमिति ध्येयम् || ।
- अत्यन्ताभावः कथमिति । अत्यन्ताभावस्य प्रतियोगिनेव ध्वंसप्रागभावाभ्यामपि सह नैककालावच्छेदेन सामानाधिकरण्य मित्यभिमानः । नोक्तार्थ प्रामाणिक प्रतीतिविरोधादित्याशयेन समाधत्ते — प्रतीतिमिति । पारमार्थिकत्वेन रूप्यं नास्तीत्याकारक- बाघस्य रूप्यनिषेधाविषयकत्वेन रूप्ये पारमार्थिकत्वनिषेधविषयकत्वं वाच्यम्; तथाचासङ्गतिरित्याशङ्कय निषेधति - न च पारमार्थिक- त्वस्येति । अन्यत्रवृत्तीति । अन्यत्रत्यव्ययम्; तेनान्यत्र वृत्तिर्यस्य तदित्यर्थः । उक्तधीविषय इति शेष: । तद्विषयत्वं न निषेध्यत्वेन; किंतु तदवच्छेदकत्वेनेत्याह तेनाकारेणेति ।