पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैत सिद्धा [ प्रथम: निषेधप्रतीतिश्च न स्यादिति – चेन्न; उत्पाद विनाशप्रतीतिरियं भ्रान्तिसमये आपाद्यते, बाधसमये वा । नाद्यः, पूर्वोत्पन्ना- विनष्टयुक्तभिन्नतया ग्रहस्यैव तत्र प्रतिबन्धकत्वात्, विरोधि- ज्ञानानुदयेन रूप्यस्याविनाशाच्च । न द्वितीयः; अत्यन्ताभाव- ग्रहस्यैव प्रतियोगिग्रह इव तदुत्पाद विनाशग्रहेऽपि प्रतिबन्धक- त्वात् । न हि कुत्रापि कदाप्यत्यन्ताभावाधिकरणत्वेन प्रतीते उत्पादविनाशप्रतीतिरस्ति । न च - त्रयाणां सत्त्वे कथमत्यन्ता- भावबुद्धया विनाशबुद्धिप्रतिबन्ध : ? विनाशबुद्ध्यैवात्यन्ता- भावबुद्धिः किमिति न प्रतिबध्येत ? नियामकाभावादिति - वाच्यम्; फलबलेनात्यन्ताभावधीसामग्रथा एव बलवत्वेन तस्यैव विनिगमकत्वात् । न च तहर्धुत्पादाद्यधिकरणे 164 अथाविद्यकरजतोत्पत्त्युपपत्तिः विनिगमकत्वात् । ननु - समारोप्यधर्म उत्पादादिरारोपा- धिष्ठाने प्रत्येतुमुचितमिति – चेन्न; यद्रूपविशिष्टम्यारोप्यता तस्यैवाधि- ष्ठाने घी, उत्पादादिकं तु मिथ्यात्वादिकमिवावृतत्वान्न रूप्यादौ गृह्यते, अन्यथा त्वदभ्युपगतमसत्त्वं रूप्यादौ कुतो न गृह्यते ? विचारदशायां तु प्रमाणवृत्त्योत्पादादिकं गृह्यत एव । एतेन --कपा- लादौ घटादेर्नाशकालेऽत्यन्ताभावस्येव नाशस्याप्यनुभवान्नाशबुद्धावत्य- न्ताभावबुद्धेः ' प्रतिबन्धकत्वं न क्ऌप्तम्, अन्यथानुपपत्त्या भ्रमस्थल एव तत्कल्पनं तु न युक्तम्; अन्यथानुपपत्त्या भ्रमस्यासद्विषयकत्वं सदुपरागेणासतोऽपि प्रत्यक्षत्वमित्यस्यैव युक्तत्वादित्यादि–परास्तम् ; 1 1 नाशवुद्धावत्यन्ताभावस्येव नाशस्याप्यनुभवान्नाशवुद्धावत्यन्त भावबुद्धेः- क. ग.