पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आवियकर जतात्पत्त्युपपत्तिः । " त्वेनाप्रतीतनिषेघकल्पनैव युक्ता | न चान्यथाख्यातिभिया तस्याप्रसक्तो कथं तन्निषेध: ? अपरोक्षत्वाभावेऽपि स्मृतिरूप- तत्प्रसक्तेः संभवात् । एतेन – अधीस्थं पारमार्थिकत्वमव- च्छेदकम्, अनवच्छेदकस्याभासस्य धीस्तु निषेधधीहेतुरिति- परास्तम् । न च - आरोपपूर्विकैव निषेधधीः तस्यानारोपा- त्कथं तदभावप्रत्यय इति – वाच्यम्; आरोपस्य हेतुतायां मानाभावेन प्रतियोगिस्मरणाधिकरणानुभवादिनैव तदुपपत्तेः । अत एव न बुद्धिपूर्वकतदारोपोऽपि । अन्यथाख्याते: साम- ग्रथभावनासत्ख्यातिवत् प्रागेव निरासादारोपस्य विशेषाद- र्शनजन्यत्वेन बुद्धिपूर्वकत्वानुपपत्तेश्च । किंचाभावप्रसक्तिरेव तत्प्रसक्ति: । ननु – (आभास इत्यप्रसक्ते ) रजतत्वाकारणाभा- सानाभासयोः प्रसक्तिर्वाच्या, सा चानुपपन्ना; उभयोरेक- सामान्याभावात् फलबलेन व्याप्तिग्रहे सामान्यस्य प्रत्या- सत्तित्वेऽप्यन्यत्रातिप्रसङ्गेन तदभावाचेति – चेन्न; शुक्तिरूप्य- स्यापणरूप्येण प्रातीतिकस्य सामान्यस्याभावे तदार्थप्रवृत्त्य- नुपपत्त्या तदुभयसामान्यस्यैकस्यावश्यकत्वात् । तेन सामा- न्येन प्रत्यासच्या आपणरूप्ये ज्ञानं न ब्रूमः, किंतु अप्रतीतनिषेषेति । निषेधाधिकरणेऽप्रतीतस्य निषेधेत्यर्थः । अधस्थं- प्रतियोगिप्रसक्तावप्रकारः । अवच्छेदकं निषेध्यतावच्छेदकम् । अनवच्छेदकस्य – निषेध्यतानवच्छेदकम्य | आभासस्य प्रातीति- कपारमार्थिकत्वस्य । निषेधधीहेतुरिति । इत्युक्तमिति शेषः । आरोपपूर्विका निषेधाधिकरणे प्रतियोगिप्रसक्तिपूर्विका । तत्प्रसक्तिः लौकिकपरमार्थप्रसक्तिः । अतिप्रसङ्गेन सार्वज्ञ्यापत्त्या | प्रातीतिकस्य प्रतीतिप्रकारस्य । सामान्यस्य रजतत्वाद्येक जातीयत्वस्य | तदर्थप्रवृतिः 1 इत्ययुक्तमिति - क. ग. , 1 परिच्छेदः] 167