पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] असत्ख्यातिभङ्गः 159 - प्रत्यक्षत्वमङ्गीक्रियते । न चात्र पूर्वकालीनभानविषये रजतेऽ- सत्त्वमिति ज्ञानमसदात्मना सद्विषयीकरोति । न च विमत- मसत्, सत्वानधिकरणत्वात्, शशशृङ्गवत्, विमता अप्रमा असद्विषयिणी, सत्त्वानधिकरणविषयकत्वात्, सन्मात्राविषयकत्वे सति सविषयकत्वात्, नृशृङ्गमसदित्यादिवाक्याजन्यपरोक्षव- दित्यनुमानं तत्र मानम् । पूर्वोक्तयुक्तया तत्र बाधात्, प्रथमानु- माने शब्दैकसमधिगम्यत्वस्य द्वितीय तृतीययोः परोक्षत्वस्यो- पाधित्वाच्च । किंचासत्ख्यात्यङ्गीकारेण बौद्धमतप्रवेशापत्तिः । न च सदुपरागो विशेषः; तथाप्यसत्ख्यात्यापत्तेस्तदवस्थ- त्वात् । न च – तार्किकैरप्यसतः संसर्गस्य भानाङ्गीकारेण तेषामप्येवमापाद्येतेति – वाच्यम्; तथाङ्गीकारे तेषामपि तथैव । अङ्गीक्रियत इति । अन्यथा शशशृङ्गमसदित्यपि प्रत्यक्षमङ्गक्रियेतेति शेषः । सद्विषयीकरोतीति । न च इदंत्वविशिष्टस्य सतोऽसदा- त्मकतया प्रत्यक्षं मानमिति वाच्यम्; सदन्यत्वस्यैव तत्र भानमित्यु- तत्वात् । पूर्वोक्तयुक्तथा – असतः प्रत्यक्षत्वाद्यसंभवयुक्तया । परोक्षत्वस्य – परोक्षघीत्वस्य | ननु - आद्यस्योपाधेर्नृशृङ्गादौ साध्या- व्यापकत्वम् ; तस्य स्वज्ञानानुव्यवसायविषयत्वात्, द्वितीयस्यापि स्वज्ञानानुव्यवसाये साध्याव्यापकत्वामिति ––चेन्न; शाब्दान्यज्ञानं प्रति साक्षाद निषेध्यत्वेनाविषयत्वस्य प्रथमोपाधित्वात्, अप्रमाया अस दन्यत्वादिविषयकत्वमादाय सद्विषयकत्वपर्यवसानवारणाय साक्षाद- सद्विषयकत्वस्यैव साध्यीकार्यतया द्वितीयस्यापि साध्यव्यापकत्वात् पक्षधर्मावच्छिन्नयथाश्रुतसाध्यव्यापकत्वस्यानपायाच्च । यत्तु – प्रथमो- 1 - पाधिमति ब्रह्माण साध्याभावात्साध्याव्याप्यत्वं दोष-- इति, तन्न 1 सदसदन्यत्वस्यैव. 1