पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

160 सव्याख्यायामद्वैत सिद्धौ [ प्रथमः , वस्तुतस्तु – तेषामपि सत्संसर्गभान एव निर्भरता, शुक्तिरूप्यं तत्तादात्म्यं चेत्यतोऽन्यस्य रजतभ्रमेऽविषयत्वात् तेषां च सत्य- त्वात् । न च तर्हि भ्रमत्वानुपपत्तिः, व्यधिकरणप्रकारकत्वेन तत्वात् । न च – रजतप्रतियोगिकसंसर्गस्य युक्त थनिष्ठत्वा- दसत्संसर्गभानं विना व्यधिकरणप्रकारत्वमेव न स्यादिति- वाच्यम् ; तत्किमायुष्मन्नसत्संसर्गः शुक्तिनिष्ठः, येन तद्विषयत्वं व्यधिकरणप्रकारकत्वायाङ्गीकुरुषे । तस्माद्भासमानवैशिष्ट्यप्रति- योगित्वं न प्रकारत्वम्, किंतु ज्ञानविषययोः स्वरूपसंबन्ध- विशेषः । स च स्वरूपसंबन्धः सन्वा संसर्गो भासतामसन्वा | उभयथापि समान एव । न च शशशृङ्गमसदित्यादिवाक्यैर सत्यपि परोक्षप्रतीतस्त्वयाङ्गीकारेण तवाप्यसत्ख्यात्यापत्तिः ; तत्र हि न प्रतीतिः, किंतु विकल्पमात्रमित्युक्तत्वात् । तस्मान्भासत्ख्यातिः ॥ इत्यसत्ख्यातिभङ्गः ॥ साध्यव्याप्यत्वस्योपाधित्वाघटकत्वात् । निर्भरताज्ञापनाय तार्किकोक्त- माह - शुक्तिरूप्यमित्यादि । असन्वा मिथ्या वा । समानः तद- भाववद्विशेष्यतानिरूपित प्रकारताकत्वरूपस्य व्यधिकरणप्रकारकत्वस्य निर्वाहकतया तुल्यः । वस्तुतो भासमानस्य वैशिष्टयस्य प्रति- योगित्वं मास्तु प्रकारत्वम् । वैशिष्टयस्य भासमानं प्रतियोगित्वं तु स्यादेव; शुक्तयादिनिष्ठवैशिष्ट्यप्रतियोगित्वस्य रूप्यादा भानसंभ- वादित्यादि विवेचितं सामान्यलक्षणाखण्डने । तत्र हीति । हि शब्दोऽवधारणे, नैव प्रतीतिरित्यर्थः ॥ , तर्के: सारस्वतै रनैश्चन्द्रिका चन्द्रभूषणैः । दुरन्तध्वान्तभङ्गाय असख्यातिनिराकृति ॥ इत्यद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायामसत्ख्यातिभङ्गः ॥