पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

158 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः विद्याया इवेति चेत्, श्रुत्यन्तराविरोधाय सदेकं ब्रह्म सदासीभ सदसद्विलक्षणमित्यर्थपर्यवसानात् || इत्यद्वैतसिद्धौ नासदासीदित्यादिश्रुत्यर्थापत्तिः ॥ अथासत्ख्यातिभङ्गः, तस्मादनिर्वाच्यख्यातिरेव प्रमाणसंभवात्, न त्वस- दन्यथाख्यातिः; प्रमाणविरहात् । न चासद्भानेऽसदेव रजतमभा- दिति प्रत्यक्षं मानम् अनन्तरोक्तबाधकेन सद्वैलक्षण्यविषय- कत्वात्, न चेदं प्रत्यक्षमपि, त्वयापि ह्यसदात्मनः सतः ब्रह्मणोऽपि सदसदन्यत्वं स्यादिति भावः । चेदिति । नेति शेषः । तेन पर्यवसानादिति हेतोर्नासङ्गतिः । श्रुत्यन्तरेति । 'सदेव सोम्येदमग्र आसीत् ' ' सत्यं ज्ञानमनन्त' मित्यादीत्यर्थः । न सदसद्वि- लक्षणमिति । 'नासदासीन्नो सदासीत्तम आसीदि' त्यनेन सद- सद्विलक्षणस्य व्यवहारतः प्रलये सत्त्वोक्तावप्यासीदित्यत्र विद्यमानैक- पदेन 'एकमेवाद्वितीयं' 'आत्मा वा इदमेक एवाग्र असी' दित्याद्यैक- वाक्यतापन्नेन सदसद्विलक्षणस्य द्वितीयसामान्यस्याभावस्तदानीं लभ्यत इति भावः ॥ तर्कैः सारस्वतै रनैश्चन्द्रिकाचन्द्रभूषणैः । दुरन्तध्वान्तनाशाय नासदित्यादिसङ्गतिः ॥ इत्यद्वैतसिद्धिव्याख्यायां गुरुचन्द्रिकायां नासदासीदित्यादिश्रुत्यर्थपत्तिः ॥ अथासत्ख्यातिभङ्गः. न त्वसदन्यथाख्यातिरिति । न त्वसदन्यथा ख्यातिवान् ।