पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिच्छेदः] श्रुत्यर्थापत्त्युपपत्तिः - , , संहर्ता मृत्युः स्यात्तत्राह-न मृत्युरिति । तर्धमृतं जीवनं स्यात्तत्राह- अमृतमिति । न रात्र्या इति । तथा राज्या अन्हश्च प्रकेतः प्रज्ञानं नासीत् चन्द्रसूर्याभावात् । आनीदित्यादि । तत् सर्ववेदान्त- प्रसिद्धं ब्रह्म आनीत् जीवितवत् । ननु – कथं ब्रह्मणो जीवनम् ; प्राणासंबन्धात् तत्राह – अवातमिति | आसीदित्यर्थकमानीदि- त्युक्तमिति भावः । स्वधया मायया सहितम् । स्वस्मिन्धार्यत इति स्वधा । स्वधेत्यनेन सहार्थकतृतीयया च मायाया ईश्वरानाश्रितत्वमी- श्वरेक्षणानपेक्षत्वं च साङ्ख्योक्तं वार्यते । एकं अद्वितीयं सर्वदा द्वितीय - शून्यम् । एवं च स्वधासाहित्योक्तिर्व्यवहारतो न परमार्थत इति बोध्यम् । ननु – स्वधासहितं ब्रह्म यदि तदानीमस्ति तर्हि न रज इत्याद्यसङ्गतम्, न हि मायातोऽन्यद्रजआदिकम् ; तत्राह -तस्मा द्धान्यदित्यादि । तस्मात्स्वधायुक्तब्रह्मणोऽन्यद्वजआदि परः सृष्टि- काले जायमानं नास तदानीं न बभूव । हशब्देनोक्तब्रह्मान्यस्यानि- र्वाच्यस्य जगतः प्रसिद्धि द्योतयति । ननु – यदि तदा जगन्नासीत्कथं तर्हि जनिक्रियाकर्तृत्वम् ? कारकावशेषस्य कर्तृत्वात् निमित्तस्यैव कारकत्वात् पूर्ववर्तिन एव निमित्तत्वात्तत्राह – तम आसीत्तमसा गूढमग्रे इति । तमसा अन्धकारबद्भावरूपेणात्मसंबन्धिस्वरूपावार- केणाज्ञानेन । गूढं -- संस्काररूपापत्त्या स्ववशीकृतम् | तमः अज्ञाना- मिन्नं जगत्तदानीमप्यासीदित्यर्थः । तथाचाविर्भावः स्थूलतापत्तिरूप उत्पत्तिः, संस्कारावस्थैव नाश इति भावः । एतेनासत्कार्यवादिनो निरस्ताः । ननु –तमसा गूढं तम इति विरुद्धम् ; तत्राह – अप्रकेतं अप्रज्ञायमानं कार्यकारणयोरत्यन्तभेदाभावात्तमसोऽत्यन्तभेदे मानशून्य- मित्यर्थः । अत एव सलिलं कारणीभूततमसि सङ्गतम् तादात्म्या. पन्नमिति यावत् । षलगतौ' इत्यस्माद्धातोरौणादिक इलच्प्रत्ययः । सर्व जगत्तदा आसीत् अस्तेर्लकि तिपि 'बहुलं छन्दसी 'तीड़भावे - - , , 6 155