पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सव्याख्यायामद्वैतसिद्धौ [प्रथम: संभवत्यप्रसिद्धपरताया अयुक्तत्वात्, न हि भूते सदसच्छन्दौ प्रसिद्धौ, किंतु पारमार्थिकापारमार्थिकयोरेव । न च 'नास- दासी 'दित्यत्राप्रसिद्धप्रतिषेधापत्तिः; 'नो सदासी 'दित्यनेन 154 ,

आनीदवातं स्वघया तदेकं तस्माद्धान्यन्न पर: किंचनास । तम आसीत्तमसा गूढमग्रेऽप्रकेतं सलिलं सर्वमा इदम् | तुच्छेनाभ्वपिहितं यदासीत्तमसस्तन्महिनाजायतकम् | कामस्तदभे समवर्तताधि मनसो रेतः प्रथमं यदासी 'दित्यादीत्यर्थः । पारमार्थिकयोरिति । भूतेषु शास्त्रीय प्रसिद्धिमात्रम्, सत्यालीकयोस्तु शास्त्रीया लौकिकी च प्रसिद्धिरिति तयोर्बलवत्त्वम् । अत एव माघवीयभाष्ये व्याख्यातम् । प्रलये स्थितं जगत्कारणस्वरूप माह – नासदासीदित्यादि । तदानीं- प्रलये, असत् – निरूपाख्यम्, नासीत् तादृशस्य कारणत्वासंभवात् । नापि सत् सत्त्वेन निर्वाच्यमासीत् सद्रूपस्य तद्विलक्षण जगत्परिणा- मित्वासंभवात् । तथा चानिर्वाच्यमासीदित्यर्थः । नासीद्रज इति । रजांसि लोक इति यास्कः, एकवचनं तु सामान्यापेक्षम् । व्योमादे- र्वक्ष्यमाणत्वात्तदन्यलोकस्तदानीं नासीदित्यर्थः । तथा व्योम अन्तरिक्ष- लोकः परः परस्तादुपरि धुलोकादिसत्यलोकान्तं च तदा नासीत् । एवं चतुर्दशभुवनगर्भं ब्रह्माण्डं निषिध्य तदावारकत्वेन पुराणप्रसिद्धानि भूतानि निषेधति - किमावरीव इति । आवृणोतेर्यङ्लगन्ताच्छन्दसि लिटि तिपि रूपमावरीव इति । किमावरणीयं कर्म भूतजातमावृणोतु आवरणीयाभावादावारकभूतान्यपि न तदानीमासन्नित्यर्थः । कुह कुत्र देशे स्थित्वा भूतमावृणुयात्तादृशदेशोऽपि तदा नेत्यर्थः । कस्य शर्मन् शर्मणे कस्य भोगाय आवृणुयात् भोक्तारोऽप्युपाघिमनो- लयात्तदा नासन्नित्यर्थः । आपो वा इदममे सलिलमासी 'दित्यादि. श्रुत्या अम्भःसत्त्वभ्रमं निरस्यति — अम्भः किमासीदिति । प्रलये -- 6