पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/११२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

156 सव्याख्यायामद्वैतसिद्धौ [ प्रथमः सद्भिन्नत्वे उक्ते असत्त्वस्यापि प्रसक्तेः । न च तदानीमित्यस्य वैयर्थ्यम्; 'नासीद्रजो नो व्योमे' ति रजोनिषेधादावेव तदन्वयात् । न हि रजःप्रभृतीनां सर्वदा अनस्तित्वम् । हल्ड्याभ्य' इति तिलोपे ' तिप्यनस्ते' रिति दकाराभावः । यद्वा सलिलमिति लुप्तोपमा; यथा नीरं क्षीरयुक्तमेकतापन्नं तथा कारणगतं जगदित्यर्थ: । तुच्छेन सद्विलक्षणेन | अपिहितं निगूढम् । एकं संस्काररूपैकावस्थापन्नम् । आशु आसमन्ताद्भवनयुक्तं यज्जगदासीत्तत्त- पस ईश्वरालोचनस्य महिम्ना स्थूलविचित्ररूपेणाजायत आविर्बभूव । अथवा अपिहितं आवृतम् । एकं अद्वितीयम् । आभु विभु संस्कार- तापन्नजगद नुस्यूतं यद्ब्रह्म आसीदित्यर्थः ॥ - प्रसक्तेरिति । सद्भिन्नत्वेनैव सर्वदेशकालनिष्ठाभावप्रतियोगित्व- रूपासत्त्वस्यानुमानसंभवादिति भावः । न चैवं शास्त्रमूलकप्राप्तियुक्तस्य शास्त्रेण निषेषे विकल्पापत्तिरिति – वाच्यम्; अननुष्ठेये विकल्पा- संभवात् । न ायं घटो न घट इत्यादौ विकल्प: संभवति, विरो- घात् । वैयर्थ्यमिति । नासदासीदित्यत्रान्वये इत्यादिः । रजोनिषेधा- दावेव न त्वसदादिनिषेषे । वस्तुतस्तदानीं सद्भिन्नमासीदित्यर्थकनो- सदासीदितिवाक्य तदानीमसद्भिन्नमासीदित्यर्थकनासदितिवाक्ययोः तम आसीदित्यनेनैकवाक्यतया सदसद्भिन्नं तम आसीदित्यर्थपर्यवसान- संभवात्तदेकवाक्यतार्थमेव नासदित्यादौ तदानीमित्यस्यान्वयावश्यक- त्वात्, नञः पर्युदासार्थकत्वास्वीकारे तु सन्नासीदित्यत्र बाघ एव सत आत्मनः सदा सत्त्वात् । अथाऽऽनीदवातमित्याद्येकवाक्यतया आत्मा- न्यत्सन्नासीदित्यर्थ इति –– चेन्न; प्रतियोग्यप्रसिद्धेः, सदसद्भिन्नत्वस्य पर्युदासपक्ष एव शाब्दत्वेनोपसंहारमात्रेण 'आमेयं चतुर्धा करोति'


1 पनं जग - ग. 6